पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
60
अलंकारमणिहारे

यत्तसकललोक इत्यर्थः । वशोऽस्यास्तीति वशी ‘वश आयत्ततायां स्याद्वश इच्छाप्रभुत्वयोः' इति विश्वः । ‘सर्वस्य वशी सर्वस्येशानः' इति श्रुतेः । ‘जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्’ इति स्मृतेश्च । कृतमस्यास्तीति कृती ‘न मे पार्थास्ति कर्तव्यम्’ इत्युक्तरीत्या स्वार्थकर्तव्यशेषरहित इत्यर्थः । यद्वा-- आश्रितरक्षणेन कृतकृत्यः ‘अभिषिच्य च' इत्यारभ्य ‘कृतकृत्यस्तदा रामः' इत्युक्तेः । अथवा कृतमुपकारोऽस्यास्तीति कृती भूम्नि मत्वर्थीयः । यत्किञ्चिदुपकृतमपि बंहीयो जानातीत्यर्थः । यथोक्तं— 'कथञ्चिदुपकारेण कृतेनैकेन तुष्यति’ इति । कृतेनेत्यत्र ‘आदिकर्मणि क्तः, कर्तुमुपक्रान्तेन’ इति व्याख्यातारः ।

गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् ।
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥

इति च । अत्र ‘वशी वदान्यः' इति पद्ये श्रीयामुनमुनिभिरनुगृहीतानि वशित्वकृतित्वकृतज्ञत्वान्यनुसंहितानि । वशी चासौ कृती चेति विशेषणोभयपदकर्मधारयः । स चासावीट् च । ईट् इश्वरो भगवान् तेन इतः प्राप्तः । वशिकृतीट् इतः प्राप्तो येनेति वा । तस्य भावः वशिकृतीडितता परब्रह्मानुभव इत्यर्थः । साऽपि नोस्स्यादिति न किं त्ववश्यं भाविन्येवेति भावः संभाव्यनिषेधनिवर्तकशब्दद्वयेन ईदृशस्य विदुषः परब्रह्माननुभवसंभावना दूरतो निरस्यते । यथा सूत्रितं वामनेन– 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति । नोस्स्यादित्यत्र सकारस्य ‘अनचि च' इति वैकल्पिकं द्वित्वमर्थान्तरानुगुण्यायावश्यमेष्टव्यम् । यद्वा-- वशिभिः स्वायत्तेन्द्रियैः कृतिभिः विद्वद्भिः ईडितता महाप्रभावोऽयं ब्रह्मविदिति स्तुतता नोस्स्यादिति न किंतु स्तुततैव स्यादिति भावः ।