पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
54
अलंकारमणिहारे

दौ । प्रथितोदन्तश्श्लाघ्यस्साधीयांस्ते हरे लसति पादः ॥ ८४९ ॥

 अत्र भगवच्चरणस्य प्रस्तुतस्य पादशब्दस्याप्रस्तुतस्य च श्लेषः । तथाहि-- बुधव्रजमहोद! बुधव्रजस्य देवनिवहस्य महः तेजः ददातीति तथोक्तः तस्य संबुद्धिः, हे हरे! भगवन्! आदौ त्रिविक्रमावतारसमये इत्यर्थः । प्रथितः प्रख्यातः उदन्तो वृत्तान्तो यस्य स तथोक्तः “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्” इत्यादिश्रुतिप्रसिद्धसकललोकाक्रमप्रभाव इति भावः । अत एव यशसा श्लाघ्यः साधीयान् अतिशयेन बाढः अतिमात्रप्रशस्त इत्यर्थः । बाढशब्दादीयसुनि "अन्तिबाढयोर्नेदसाधौ " इति साधादेशः । ते भवतः पादः चरणः वाताशगिरौ शेषाद्रौ पदं स्थानं आप्तस्सन् लसति । तत्र न्यस्तत्वात्तथोक्तिः ॥

 अन्यत्र बुधानां शाब्दिकानां महोदयः महाभ्युदयहेतुः तस्य संबुद्धिः हे हरे! पतञ्जलित्वेनावतीर्ण हे शेषेत्यर्थः । "व्याळः कुम्भीनसो हरिः” इत्यमरः । विशेषणमहिम्ना सामान्यस्यापि हरिशब्दस्य विशेषपरत्वमवधेयम् । श्लाघ्यः अदन्तः । ह्रस्वाकारान्तः प्रथितः अदन्ततया कोशादौ प्रसिद्धः पादः पादशब्दः शसादौ शसिति द्वितीयाबहुवचनस्य संज्ञा । तदादौ प्रत्यये परे सतीति यावत् । वाताशः ऋषिः पाणिनिरित्यर्थः । तस्य गिरा “पदन्नोमास्” इत्यादिसूत्ररूपयेत्यर्थः । पदं पदित्याकारकमादेशमिति यावत् । अवाप्तः प्राप्तः । प्रथितोदन्तश्लाघ्य इत्यानुपूर्वीमावर्त्य प्रथितः दन्तश्लाघ्य इति छिद्यते; दन्तः द् इत्याकारकवर्णः अन्ते यस्य स तथोक्तः । पदादेशे तथात्वसिद्धेः, दन्त इति श्लाघ्यः दन्तश्लाघ्यः ते शब्दानुशासनभाष्यकृतस्तव । संबन्धसामान्ये षष्ठी । साधी-