पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
52
अलंकारमणिहारे

पाधिकनिर्देशे ह्यसंकोचो मनीषिभिः । सिद्धे शब्दार्थसंबन्धे’ इति न्यायेन शब्दशक्तेरसंकोचात्सर्वेश्वरादस्मादित्यर्थः । अवरः न्यून एवेति वाक्यान्तरम् । यद्वा-- अस्येत्येतत्पूर्वत्राप्यपकृष्य अस्य इशः अवर इति योजना अस्मान्यून इत्येवार्थः । अस्मिस्पक्षे ईश इति शेषषष्ठी । अत एव अस्य भगवतः परः इतरः चतुर्मुखादिः नेट् ईश्वरो न भवतीत्यर्थः । 'न तस्येशे कश्चन’ इत्यादिश्रुतेः । अयमेव एष श्रीनिवास एव ईश्वरः सर्वेषामीश्वरः भवति हि । हि-- शब्दः ‘एष सर्वेश्वरः । ईशानो भूतभव्यस्य । सर्रेश्वरेश्वरः कृष्णः’ इत्यादिश्रुतिपुराणादिप्रसिद्धं द्योतयति । यद्वा-- हिर्हेतौ । अस्यैव सर्वेश्वरत्वादिति भावः । हेत्वन्तरं चाह-- विकृतिमिति । असौ भगवान् विकृतिं ‘जायते अस्ति वर्धते’ इत्याद्युक्तान् षड्भावविकारान् नैव इयात् । ‘जरां मृत्युमत्येति । अपक्षयविनाशाभ्याम्' इत्यादिप्रमाणेभ्य इति भावः । किंच-- अस्य भगवतः उपधा कैतवं, येन परा अतिसंधीयेरन् तादृशश्चित्तविकारविशेषः ‘कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः, ‘अमात्यानुपधातीतान्’ इतिप्रयोगश्च । लघुतागुणोऽपि रागद्वेषादिकृतचित्तलाघवरूपगुणोऽपि । अथवा - उपधया या लघुता तादृशः अगुणः अप्रशस्तगुणः हेयगुण इत्यर्थः । नञत्राप्राशस्त्ये । 'अप्राशस्त्यं विरोधश्च' इति नञर्थेषु परिगणनात् । इदं हेयगुणसामान्यस्योपलक्षकम् । सोऽपि दूरे अमुं न स्पृशतीत्यर्थः । अपूर्णत्वादन्येषामीदृशहेयगुणसंबन्धस्स्यात् । अस्य तु निरवधिकैश्वर्यनित्यपूर्णत्वादखिल हेयप्रत्यनीकत्वाच्च तत्संबन्धगन्धोऽपि न संभवतीत्ययमेव सर्वेश्वर इति भावः । अत्र उपधादूरत्वोक्त्या अस्याश्रितेषु करणत्रयवृत्त्यैकरूप्येण कौटिल्यविधुरतया आर्जवं प्रदर्शितम् । यथा चायमेवाह--