पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
44
अलंकारमणिहारे

यावत् । अत एव गुणैः पावनत्वरम्यत्वादिभिः उत्तरः श्रेष्ठस्सन् भाति दीप्यते । अस्य एवं विधस्य शेषाद्रेः गुणनिषिद्धिः पूर्वोक्तगुणनिषेधः । निपूर्वकात्सेधतेः क्तिन् । केन पुंसा कृता क्लृप्ता, केन श्रुता, केन दृष्टा वा । अस्य पावनत्वादिगुणनिषेधो न केनचित्कृतश्श्रुतो दृष्टो वेत्यर्थः ॥

 अन्यत्र-- त्वच्चरणलिहशब्दः शेषमहीध्रशब्दश्च, अगुणोत्तर इतिच्छेदः । अगुणं गुणरहितं उत्तरं लिहः ध्र इत्याकारकमुत्तरपदं यस्य स तथोक्तः भवति । ननु अनयोश्शब्दयोः क्रमेण कुतो लघूपधलक्षणः आर्धधातुकलक्षणश्च गुणो न प्रवर्तत इत्यत आह-- केनति । अस्य लिहशब्दस्य ध्रशब्दस्य च कृता कृत्संज्ञकेन केन 'इगुपधज्ञाप्रीकिरः कः, कप्रकरणे मूलबिभुजादिभ्य उपसंख्यानम्' इति च विहितेन कप्रत्ययेन हेतुभूतेन गुणनिषिद्धिः ‘क्ङिति च' इति विहितो गुणनिषेध इति भावः । श्रुता शास्त्रेषु निशमिता । दृष्टा प्रयोगेषु दृष्टा च । लिहध्रशब्दयोरुभयोरपि उक्तरीत्या कप्रत्ययान्ततया, कित्वप्रयुक्तगुणनिषेधः श्रुतो दृष्टश्चेत्यर्थः । यद्वा--त्वच्चरणलिहः शेषमहीध्रश्च अगुणोत्तरो भातीति केनचिदुक्ते केनास्य गुणनिषिद्धिः कृता श्रुता दृष्टा चेति प्रश्नाभिन्नमुत्तरमिदमिति वक्ष्यमाणचित्रालङ्कारश्चेत्ययं विशेषोऽस्मिन्नर्थे ॥

 यथावा--

 कश्चित्त्वयि लुम्पति चेल्लुम्पतु सुप्रत्ययं परब्रह्मन् । तव ननु यदाकदावा भविता कश्चित्ततो नलोपो वा ॥ ८४४ ॥