पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
497
एकावळ्यलंकारसर: (४९)

संमर्शः । तत्तत्त्वं यत्परमं तत्परमं ब्रह्म भाति यत्सरमम् ॥ १४०१ ॥

 अत्रोत्तरोत्तरविवेकादिविशेषणानां पूर्वपूर्वबुधादिविशेष्यस्थापकत्वम् ॥

 न स मनुजो योऽविद्वान्न स विद्वान्यो न वेद तद्ब्रह्म । न ब्रह्म तद्वृषाद्रौ यन्न परिरमेद्रमावशोरस्कम् ॥ १४०२ ॥

 अत्र पूर्वपूर्वस्य मनुजादेर्विशेष्यस्य उत्तरोत्तरमविद्वदादिविशेषणमपोहकम् । यद्यपि स्थापकेऽप्यपोहकत्वं गम्यते यो न विवेकी न स बुध इत्यादि, तथाऽपोहकेऽपि स्थापकत्वं यो विद्वान् स मनुज इत्यादि, तथाऽपि नोपात्तं तदित्यदोषः ॥

 पूर्वपूर्वस्य उत्तरोत्तरं प्रति विशेषणतया गुम्भनं द्वितीय प्रकारः ।

 स यथा--

 त्वद्विभवज्ञो भीष्मस्तज्जननी जगदिदं पवित्रयति । तद्दयिते त्वं शयितो गुणास्तवाच्युत नृणां प्रियंकरणाः ॥ १४०३ ॥

 यथावा--

 लक्ष्म्या विभाति भगवांस्तेनाहिगिरिश्च भवति शेखरितः । तेन द्रमिडा रम्यास्तैरेतद्भूषितं भरतखण्डम् ॥ १४०४ ॥

 ALANKARA II
63