पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
495
कारणमालालंकारसरः (४८)

 अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति विनयः कस्य कारणमिति वा आकाङ्क्षेदिति, कारणस्यैव स्मृतिवशात्पूर्वमुपस्थितेः । कारणं तु ज्ञातं कार्यं पुनरस्य किमिति क्वचिदाकाङ्क्षा तु कार्यत्वकारणत्वयोस्संबन्धिपदार्थत्वात्कारणश्रवणोत्तरमेकसंबन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया, न त्वसौ सार्वत्रिकी, एवंच विनयः कस्य कारणमित्याकाङ्क्षायाः गुणप्रकर्षो विनयादवाप्यत इति वाक्यं यद्यपि फलतः परिपूरकं भवति । तथाऽपि न साक्षादित्यहृदयङ्गममेव । तथा गुणप्रकर्षात्किमवाप्यत इत्याकाङ्क्षायां गुणाधिके पुंसीति च । अत्र च कथितपदत्वं न दोषः, प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ रूपान्तरेण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेरकुण्ठितत्वविरहाद्दोषस्स्यात् । शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शब्दोऽपि विशेषणतया भासते । तथाचोक्तम्--

 न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।

इति । तत्तच्छब्दस्य विशिष्टस्यार्थस्स्वरूपेणाभिन्नोऽपि विलक्षणः प्रतीयत इति न कथितपदत्वदोष इति वदन्ति । विस्तरस्त्वन्यत्र द्रष्टव्यः ॥

इत्यलंकारमणिहारे कारणमालासरोऽष्टचत्वारिंशः..