पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
483
विशेषालंकारसरः (४६)

 अत्रादिमे पद्ये भगवतः कल्याणगुणानां द्वितीये पादपद्मयुगळस्य च युगपदनेकाधारस्थितिः ॥

 यथावा--

 श्रितकनकविमानं यं वीक्षेऽहिगिरो पुमांसममुमेव । वेद्मि विधाभेदाद्रविबिम्बे श्रितकनकधामानम् ॥ १३७९ ॥

 यं अहिगिरौ श्रितकनकविमानं वीक्षे पश्यामि अमुमेव पुमांसं परमपुरुषं रविबिम्बे विधाभेदात् प्रकारभेदात् श्रितकनकधामानं 'य एषोऽन्तरादित्ये हिरण्मयः पुरुष' इति श्रुतहिरण्यवर्णं वेद्मि अयमेक एव परमपुरुष उभयत्र स्थित इति जानामि । शेषाद्रौ जलदनीलवर्णत्वं रविबिम्बे तु सुवर्णवर्णत्वमित्ययमेव विधाभेदः ।पक्षेश्रितकनकविमानशब्दमेव विधाभेदात् वि धा इति वर्णमात्रवैलक्षण्यात् श्रितकनकधामानं श्रितकनकधामशब्दं वेद्मीति चमत्कार एव पूर्वतो विशेषः ॥


तृतीयविशेषः

किंचित्कार्यारम्भमात्रादन्यत्कार्यं सुदुष्करम् ।
कृतं निबध्यते यत्र विशेषस्सोऽपि सम्मतः॥

 किंचित्कार्यमारभमाणस्यासंभाविताशक्यकार्यान्तरनिर्वर्तनं तृतीयो विशेषप्रकारः । एवंच एतदन्यतमत्वं विशेषालंकारसामान्यलक्षणमिति ध्येयम् ॥

 यथा--

 सोपानपथे ददता गोपालेनापि पादमहिशैले ।