पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
469
विचित्रालङ्कारसरः (४२)

अथ विचित्रालंकारसरः (४२)

 इष्टैषिणेष्टसिद्ध्यै तद्विपरीतं क्रियेत चेत् । प्रयत्नस्तामिमां प्राहुर्विचित्रालंकृतिं बुधाः ॥

 कस्यचित्फलस्येच्छया तद्विपरीतः प्रयत्नः क्रियेत चेत् विचित्रालंकारः । इष्टविपरीताचरणमिति यावत् । विपरीतत्वं च प्रतिकूलत्वम् ॥

 यथावा--

 भवजलधितलनिमग्नानुद्धर्तुं तान् सुगं सुपन्थानम् । प्रापयितुमपि हरे बत फणिधरशिखराग्रदुर्गमावससि ॥ १३५० ॥

 सुखेन गच्छन्त्यत्रेति सुगः तं ‘सुदुरोरधिकरणे' इति गमेर्डः । शोभनः पन्थाः सुपन्थाः तं सुपन्थानं ‘न पूजनात्' इति समासान्तनिषेधः । दुःखेन गच्छन्त्यत्रेति दुर्गम् । अत्रातिमात्रनिम्नभवजलनिधितलनिमग्नजनोद्धरणं तेषां सुमार्गप्रापणं च फलमुद्दिश्य तद्विपरीतमहोन्नतफणिप्रचुरगिरिशिखराग्रदुर्गस्थानावस्थानरूपविपरीतप्रयत्नवर्णनम् । शेषाचलशिखराग्रावस्थितिमाचरसीति तत्त्वम् ॥

 यथावा--

 निरवधिमवधीरयितुं दुरभिभवं हेयभोगसंसर्गम् । सन्तः कृष्ण भजन्ते हन्त त्वाहेयभोगकृतनृत्तम् ॥ १३५१ ॥