पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
468
अलंकारमणिहारे

वक्षायास्सद्भावेऽपि न अशनमिति पदद्वयविभागेन अशनं अभ्य वहरणं न कार्यं किंतूपवसनमेवेति वस्तुसदर्थान्तरमभिदधानं रूपान्तरमालम्ब्य समालंकारोऽप्यक्षत एव । पूर्वस्मिन्नुदाहरणे पदत्रयविभागेनासतोऽनिष्टार्थस्य प्रतीतिः, ऐकपद्येन वस्तुसत इष्टार्थस्य । इह तु ऐकपद्येनासदनिष्टार्थप्रतीतिः पदद्वयविभागेन वस्तुसदिष्टार्थस्येति भेदः ॥

 श्लेषलब्धासदिष्टावाप्तिप्रतीतिमात्रेणापि समालंकारत्वं ‘अनिशमपि तं निषेवितुम्' इति प्रागुपदर्शितेषूदाहरणेषु द्रष्टव्यम् । मात्रपदेनानिष्टार्थप्रतीतिर्व्यवच्छिद्यते । तत्र हि असितोत्पलादीनां श्लेषबलादनिशविधुनिषेवणादीष्टावाप्तिमात्रम्, न त्वनिष्टप्रतिभासोऽपीति ध्येयम् ॥

 यत्तु विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषममिति विषमालंकारं लक्षयित्वा तद्विपर्ययस्सममिति समालंकारं लक्षयता तत्पदेनात्र विषमालंकारसबन्धी विरूपघटनारूपश्चरम एव भेदो गृह्यते तद्विपर्ययस्यैव चरुत्वात् । न त्वाद्यभेदद्वयं, तद्विपर्ययस्य कारणादनुरूपकार्योत्पत्तिरूपस्य वाञ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया चारुताविरहात् । एवं चानुरूपसंघटनात्मक एव समालंकारः । न तु विषमालंकार इव भेदत्रितयात्मक इत्यलंकारसर्वस्वकृतोक्तम् । तन्न, वस्तुतोऽननुरूपयोरपि कार्यकारणयोः श्लेषादिना धर्मैक्यसंपादनद्वारा अनुरूपत्ववर्णने वस्तुतोऽनिष्टस्यापि तेनैवोपायेन इष्टैक्यसंपत्ताविष्टप्राप्तिवर्णनं च चारुतया अत्रैव दर्शितत्वात् । तस्मात्सममपि विषममिव त्रिविधमेवेति ॥

इत्यलंकारमणिहारे समालंकारसर एकचत्वारिंशः.