पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
464
अलंकारमणिहारे

 सुतरां उक्तिविदूरा ‘यतो वाचो निवर्तन्ते' इत्युक्तरीत्या वाचामविषयभूता । संपत् मुक्तैश्वर्यं स्यादिति भवेदिति प्रत्याशयेत्यर्थः । त्वां अहं समाश्रितः तथैव सुतरामुक्तिविदूरा संपदेव त्वयाऽपि वितीर्णेति स्तुतिः । सुतरा शोभनतरत्वेनाभासमाना मुक्तिविदूरा मोक्षदवीयसी संपदित्युपालम्भः । ‘अर्थश्रेयसि चासक्तो न श्रेयो विन्दते परम्’ इति महाभारतोक्तेरैहिकसंपदो मुक्तिविदूरत्वम् । अत्रापि पूर्वोदाहरणवदेव सर्वं द्रष्टव्यम् ॥

 यथावा--

 अहमन्नाद इति सदा गातुं त्वां शरणमगममब्जाक्ष । भवताऽपि तथाऽकारिषि सांप्रतमन्नाद एव किल कृपया ॥ १३४४ ॥

 इदं निश्रेयसावाप्तित्वरया प्रारब्धकर्मफलभोगानुभवादपि जुगुप्समानस्य कस्यचित्प्रपन्नस्य प्रपत्त्युत्तरमपि सांसारिकभोगानेव यथापुरमनुभावयन्तं भगवन्तं प्रति व्याजस्तुत्या उपालम्भवचनम् । तथाहि-- हे अब्जाक्ष ! अहमन्नाद इति सदा गातुं ‘एतत्सामगायन्नास्ते’ इत्युपक्रम्य ‘अहमन्नादोऽहमन्नादः' इति श्रुत्युक्तक्रमेण सामगानं विधातुं परिपूर्णपरब्रह्मानुभवानन्दरूपं मुक्त्यैश्वर्यं लब्धुमिति भावः । ‘अहमन्नादः' इति श्रुतिगतयोश्शब्दयोः अहं अस्मच्छरीरकः परमात्मैव अन्नादः सकलभोक्तृशरीरक इत्यर्थः । ‘अहंशब्दः परमात्मपर्यन्तः भोग्यभोक्तृवाच्यान्नान्नादिशब्दौ च तत्पर्यन्तौ’ इति तद्भाष्यम् । त्वां शरणमगमं प्रपन्नोऽस्मि । भवताऽपि कृपया सांप्रतं इदानीं तथा अकारिषि यथाभ्यर्थनं अन्नाद एव कृतोऽस्मि । कृञः कर्मणि भूते लुङुत्तमैकवचनम् । अकारिषि सांप्रतमिति वा योजना ।