पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
458
अलङ्कारमणिहारे

प्रयुक्तान्निशाधिकरणकोपासनलक्षणात्कारणादिन्दीवरस्यानिष्टं विना तत्सिद्धेरुत्पत्तिलक्षणससंर्गस्यानुरूप्यम् ॥

 यथावा--

 सततमपि हरिकरग्रहवैभवमाकाङ्क्षदम्ब सरसिरुहम् । अभिहरि सलिले तप्वाऽलभत त्वत्पाणिजन्मनि तदेव ॥ १३३६ ॥

 हरिकरग्रहवैभवं भगवत्पाणिग्रहणसंपदं भानुकरसंपर्कातिशयं च । अभिहरि भगवदभिमुखं भानुमदभिमुखं च । तदेव सततहरिकरग्रहवैभवमेव । अत्रापि सार्वकालिकहरिकरग्रहणलक्षणाभीष्टलाभाय हर्यभिमुखं तपस्यतोऽम्बुजस्य जन्मान्तरेऽनिष्टं विना तत्सिद्धिर्दर्शिता ॥

 यथावा--

 दातुं विभवे भोगान्भोक्तुं स्वयमपि भवन् बहुविधाशः । जननि सुधाकलशस्त्वत्कुचजन्मनि भवति सुकल इति युक्तम् ॥ १३३७ ॥

 हे जननि ! सुधाकलशः अमृतकुम्भः सुधाकलशशब्दश्च विभवे सति ऐश्वर्यावसर इत्यर्थः । विभवे लोकनाथाय भगवते इति वस्तुस्थितिः । भोगान् दातुं स्वयं भोक्तुमपि बहुविधा आशा आयततृष्णा यस्य स तथोक्तः भवन् । पक्षे बहु यथास्यात्तथा विधाशः विगतधाकारशकारइत्यर्थः । त्वत्कुचजन्मनि सुकलः मनोरथानुगुणं त्यागभोगभाग्भवन् सन् 'सुकलो दातृभोक्तरि' इत्यमरः । धाकारशकरापनयनेन सुकल इति निष्पन्न इति वस्तुस्थितिः । अत्र सुधाकलशस्यानीष्टं विना स्वेप्सितावाप्तिः ॥