पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
457
समालङ्कारसरः (४१)

कार्यस्य द्वितीयप्रभेदोदाहरणत्रये घनसारचूर्णेत्यादौ अगन्तुकघनसारादिसंसर्गानुरूप्यमिति निष्कर्षः ॥

तृतीयसमम्.


यत्किञ्चिदिष्टसिद्ध्यर्थं य उद्योगो वितन्यते ।
अनिष्टेन विना तस्य सिद्धिश्च सममुच्यते ॥

 यत्किञ्चिदिष्टप्राप्त्यर्थनप्रयुक्तात्कारणादनिष्टं विना तत्प्राप्त्या उत्पत्तिलक्षणसंसर्गस्यानुरूप्यं च समालंकार इत्यर्थः । उत्कटेष्टान्तरप्राप्तौ तु प्रहर्षणं वक्ष्यते । इदं तृतीयं समं ‘इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम्’ इति संगृहीतसप्रकारत्रिविधविषमस्यापि प्रतिद्वन्द्वि, इष्टावाप्तेरनिष्टस्याप्रसङ्गाच्च ॥

 यथा--

 अनिशमपि तं निषेवितुमसितं निश्युत्पलं निषेव्य विधुम् । त्वद्दिव्यदृगात्मत्वं प्राप्य रमे स्वेप्सितार्थमनुभवति ॥ १३३५ ॥

 हे रमे ! अनिशं निशाया अभावेऽपि । अर्थाभावेऽव्ययीभावः । तं विधुं श्रीनिवासं चन्द्रमसमिति तु तत्त्वम् । निषेवितुं असितमुत्पलं इन्दीवरं निशि विधुं निषेव्य निशाया योगाभ्याससमयत्वात्तदा विधुमुपास्येत्यर्थः । त्वद्दिव्यदृगात्मत्वं तव कमनीयनयनरूपत्वं त्वद्विषयकासंकुचितज्ञानात्मत्वं परिशुद्धं स्वरूपमित्यपि

गम्यते । प्राप्य स्वेप्सितार्थं अनिशविधुनिषेवणरूपमभीष्टार्थं अनुभवति । अत्र निशाभावदशायामपि विधुनिषेवणलक्षणाभीष्टावाप्त्यर्थं

 ALANKARA II
58