पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
456
अलंङ्कारमणिहारे

खं ते । विधुनीते मम तापं विदधात्यामोदमिति यदुचितं तत् ॥ १३३२ ॥

 कमलामनोहरेति संबुद्धिः । ललामशब्दो नान्तो नपुंसकलिङ्गः । ‘ललामं च ललाम च' इत्यनुशासनात् ॥

 यथावा--

 विसृमरकौस्तुभमहसा मसृणं कमलाङ्घ्रिजतुरसात्यरुणम् । अञ्जनगिरिपतिहृदयं रञ्जयति मनो ममेत्युचितमेतत् ॥ १३३३ ॥

 रञ्जयति अरुणयति आनन्दयति च । अत्राद्ये उदाहरणे भगवन्मुखगतशिशिरसुरभिलघनसारतिलकसंसर्गानुरूप्यं तापविधूननामोदनरूपकार्ययोः । अनन्तरोदाहरणे मनोरञ्जनरूपकार्यस्य भगवदुरस्स्थलगतकौस्तुभप्रभादिसंसर्गानुरूप्यम् ॥

 यथावा--

 हालाहलसहजन्मा व्यालावनिभृद्विभोश्च हृदयमगाः । यस्सेवते सदा त्वां सुधाब्धितनये समुह्यतीत्युचितम् ॥ १३३४ ॥

 व्यालावनिभृद्विभोः भुजगराजाधिराजस्य हृदयं अन्तरं शेषाचलनाथस्य वक्ष इति वस्तुस्थितिः । सेवते पिबति भजते च । मुह्यति मूर्छति ऐश्वर्यमूलकचित्तविकारं प्राप्नोति च । स्पष्टमन्यत् । पूर्वोदाहरणद्वयं प्रशंसापर्यवसायि, इदं तु निन्दापर्यवसायीति पूर्ववदेव भेदः । एवंच द्वितीयसमविशेषे प्राथमिकप्रभेदोदाहरणत्रये कृतसूर्यभवाश्लेषेत्यादौ कारणस्वभावानुरूप्यं