पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
453
समालङ्कारसरः (४१)

 यथावा--

 निरयस्त्वद्विषये यो निरयस्तेनाप्यतेऽहिशैलमणे । नरको यो द्वेष्टि त्वां नरको नियतोऽस्य तदिदमनुरूपम् ॥ १३२८ ॥

 यः त्वद्विषये निरयः अयात् निष्क्रान्तो निरयः ‘अयश्शुभावहो विधिः' इत्यमरः । ‘निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । ‘न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम्’ इत्यवश्यकर्तव्यतया विहितत्वदाराधनरूपशुभावहविधिविधुर इत्यर्थः । तेन निरयः नरकः आप्यते । यः नरकः कुत्सितो नरः ‘कुत्सायाम्' इति कन् । त्वां द्वेष्टा ताच्छील्ये तृन् ‘न लोक' इति षष्ठीनिषेधः । अस्य पुंसः नरकः निरयः नियतः नियमेन भविता । अत्र भगवत्परिचर्यावैधुर्यनिरयप्राप्त्योस्तद्विद्वेषनरकावाप्त्योश्चानुरूप्यम् । मालारूपमिदमिति विशेषः । निन्दापर्यवसायित्वं तु पूर्ववदेव । एषूदाहरणेष्वादिममुदाहरणं दृष्टान्तसंकीर्णं, अन्यान्युदाहरणानि तु श्लेषादिसंकीर्णानीति विशेषः ॥


द्वितीयसमम्.


समं तदपि कार्यस्य सारूप्यं कारणेन यत् ॥

 कार्यस्य कारणेन सारूप्यमपि समालंकारः । अत्रोत्पत्तिलक्षणसंसर्गस्यानुरूप्यम् । तच्च कारणात्स्वसमानगुणकार्योत्पत्त्या,