पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
451
समालङ्कारसरः (४१)

 हे श्रीरिति सामर्थ्याल्लभ्यते । मिळिन्दः भ्रमरः मिळिन्दशब्दश्च, तयोस्तादात्म्यम् । तव कचानां शिरोरुहाणां यत् जातरूपं सुवर्णं तदाभरणभूतमिति भावः । यद्वा कचति दीप्यत इति कचं 'कच दीप्तौ' पचाद्यच् । यत् जातरूपं दशवर्णसुवर्णमित्यर्थः । कचजातं शिरोरुहजं यत् रूपं नीलरूपमिति तु वस्तुस्थितिः, तस्य चौर्यात् । आद्यवर्णात्, ब्राह्मणवर्णात् मि इत्याकारकप्रथमवर्णाच्च च्युतस्सन् अग्रजाः ब्राह्मणाः ये पुमांसः तेषां आश्रितोऽपि, शेषषष्ठ्यास्समासः, तानाश्रितोऽपीत्यर्थः । वस्तुतस्तु अग्रजं आद्यं मिकारस्थानिकमिति भावः । पुं पुमित्याकारकवर्णसमुदयं आश्रितः । अपिस्समुच्चये । न केवलमादौ मिवर्णच्युतः अपितु पुवर्णमप्याश्रित इत्यर्थः । पुळिन्दत्वं म्लेच्छजातिविशेषत्वं ‘भेदाः किरातशबरपुळिन्दा म्लेच्छजातयः' इत्यमरः । पक्षे पुळिन्दशब्दत्वं च प्राप । अस्य पुळिन्दतावाप्तौ हेत्वन्तरं समुच्चिनोति-- एष इति । हि यस्मात् एषः मिळिन्दः मधुपः मद्यपः, इंदृशस्य पुळिन्दत्वप्राप्तिरुचितैवेति भावः । मकरन्दलिडिति तत्वम् । अत्र कचजातरूपचौर्यप्रभृतेः पुळिन्दत्वप्राप्त्यादेश्चानुरूप्यं निन्दापर्यवसायि ॥

 यथावा--

 मुखजमपि नाथ जलजं त्वत्पदविद्वेषतोऽन्तराविलताम् । एत्य जघन्यजमासीदीदृक्षस्यान्त्यजत्वमप्युचितम् ॥ १३२६ ॥

 हे नाथ जलजं मुखजमपि स्वयं ब्रह्मवर्णमपि 'मुखभागे जकारसहितमिति वस्तुस्थितिः, शब्दार्थयोस्तादात्म्यात् । जलजं लडयोरभेदाज्जडजमित्यपि प्रतीयते । त्वत्पदविद्वेषतः अन्तः मन-