पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
447
समालङ्कारसरः (४१)

 अच्युता अप्रच्युता शोभा यस्य सः नभः गच्छतीति नभोगश्च । विशेषणोभयपदकर्मधारयः । अच्युतशोभं यन्नभः तद्गच्छतीति तथोक्त इति वा । स्पर्शनतः मारुतात् स्फातिमान् वृद्धिमान् । स्पर्शनत इत्यत्र सकारस्य खर्परकत्वान्नभोगशब्दान्तिमविसर्गलोप एष्टव्यः, अर्थान्तरेऽपि शब्दसारूप्याय । एवं श्रीस्तनतीत्यत्रापि । पक्षे अच्युतस्य भगवतः शोभनो भोगो यस्य तत्तथोक्तं यत् स्पर्शनं अवमर्शः तेन ततः, सार्वविभक्तिकस्तसिः। यद्वा शोभनो यो भोगसंम्भोगः तस्मिन् तदवसरे स्पर्शनतः संस्पर्शात् स्फातिमान् उच्छूनइत्यर्थः । ‘स्फातिर्वृद्धौ' इत्यमरः । अतिमात्रं उन्नता श्रीः यस्य स तथोक्तः । घनाघनराट् प्रावृषेण्यवारिवाहः स्तनति गर्जतीत्युचितम् । हि यस्मात् एषः पयोधरः पूर्णसलिलः । पक्षे अतिमात्रं उन्नतः श्रीस्तनति श्रीस्तन इवाचरतीत्युचितम् । हि यस्मात् एषः पयोधरः पूर्णक्षीरः । अत्र घनाघनराजस्य स्तनतीतिशब्दप्रतिपाद्यगर्जनाभेदाध्यवसितस्तनवदाचरणस्य चानुरूप्यम् । उपमासंकीर्णमिदम् ॥

 यथावा--

 सेवनकृच्छ्रमलब्धा पावन तव पादपद्मयोर्मनुजः । सेवनकृच्छ्रमलब्धा देवनकृच्छ्रेणिषूचितं ह्येतत् ॥ १३१९ ॥

 हे पावन! 'पावनस्सर्वभूतानां त्वमेव रघुनन्दन’ इत्युक्तरीत्या पवित्ररूप हे भगवन्! तव पादपद्मयोः सेवनकृत् सेवाविधाता । श्रमस्य लब्धा ‘त्रिभुवनविधातुः' इत्यत्रेव शैषिकषष्ठ्यास्तृजन्तेन समासः । भगवच्चरणारविन्दपरिचरणपरिश्रम-