पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
443
समालङ्कारसरः (४१)

 यथावा--

 व्यत्ययसमयेऽप्यविकृतभावैर्यैर्वैष्णवैस्स्थितं भगवन् । तादृक्षा एव हि तैस्सेव्यन्ते त्वत्पदश्रिता यतयः ॥ १३१४ ॥

 हे भगवन् ! व्यत्ययसमये विपर्ययकालेऽपि अतिकृछ्रदशावसरेऽपीति यावत् । यैः वैष्णवैः अविकृतभावैः यथाऽवस्थितभगवच्छेषत्वादिस्वभावैरेव स्थितं, भावे क्तः । तैः वैष्णवैः तादृक्षाः व्यत्ययसमयेऽप्यविकृतस्वभावा एव त्वत्पदश्रिताः त्वच्चरणं शरणं गताः । यद्वा त्वत्पदं त्वच्चिह्नं त्रिदण्डमित्यर्थः । ‘त्रिदण्डं वैष्णवं लिङ्गम्' इति स्मरणात् । श्रिताः त्रिदण्डिन इत्यर्थः । यतयः संयमिनः सेव्यन्ते, न त्वतादृशा इति भावः । पक्षे वर्णविपर्याससमयेऽप्यविकृतस्वभावैः वैष्णवैः, अस्य वैष्णवैरित्यानुपूर्वीविशिष्टस्य पदस्य विपर्ययेण पठनेऽपि तथैवावस्थानादिति भावः । तादृक्षाः उक्तविधाः यतयः अस्यापि पदस्य वैपरीत्ये यथापूर्वमेवावस्थितेरिति भावः । अर्थगतस्य बहुत्वस्य पदे आरोपः । अत्र वैष्णवानां त्रिदण्डिनां प्रपन्नानां वा यतीनां चानुरूपस्संसर्गः ॥

 यथावा--

 जगतामधिभूर्भगवान् श्रीरधिभूस्त्वमपि तदिदमनुरूपम् । प्रायेण विभक्तावपि पौंस्ने स्त्रैणे यदैकरूप्यजुषौ ॥ १३१५ ॥

 हे श्री: ! भगवान् जगतां अधिभूः अधीश्वरः 'एष सर्वेश्वरः' 'पतिं विश्वस्य' इत्यादिश्रवणात् । ‘अधिभूर्नायको नेता' इत्यमरः । त्वमपि जगतां अधिभूः अधीश्वरी ‘ईशाना देवी भुव-