पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
442
अलङ्कारमणिहारे

तुरुपासनम् । इहैव न त्वितः प्रेत्य । इदमाश्चर्यमिति भावः । रेफस्य गर्हितस्य अघस्येत्यर्थः । ‘निन्दितस्य च सेवनात्' इत्यादौ अघस्य निन्दितत्वोक्तेः। संसर्गस्संबन्धः स नास्ति यस्य सः अरेफसंसर्गस्सन् शुभाश्रयः मङ्गळविग्रहः अभवम् । पक्षे शुभाश्रयशब्दः अरेफसंसर्गः रवर्णसंबन्धरहितः शुभाशय इति निष्पन्न इत्यर्थः । शब्दार्थयोस्तादात्म्यम् । ‘रवर्णे पुंसि रेफस्स्यात् कुत्सिते वाच्यलिङ्गकः’ इत्यमरः । त्वद्दिव्यमङ्गळविग्रहानुध्यानेन निरस्तनिखिलाघः कल्याणाशयोऽभवमिति निर्गळितोऽर्थः । ‘आशयस्स्यादभिप्राये मानसाधारयोरपि' इति विश्वः । अत्र शुभाश्रयानुध्यानशुभाश्रयत्वप्राप्त्योरनुरूपयोर्वर्णनम् ॥

 यथावा--

 विनतानन्दननिपुणौ द्वावपि विश्वंभराभिवहनचणौ । तन्नभिदा काऽप्यनयोर्मैत्र्युचिता पतगपन्नगाधिपयोः ॥ १३१३ ॥

 द्वावपि पतगपन्नगाधिपावुभावपि विनतानन्दननिपुणौ विनतायाः विनतानां च आनन्दने निपुणौ । विश्वंभरस्य विश्वंभरायाश्च अभिवहनेन वित्तौ अभिवहनचणौ । ‘तेन वित्तः' इति चणप्प्रत्ययः । प्रथित इत्यर्थः । तत् तस्मात् अनयोः पतगपन्नगाधिपयोः गरुत्मदनन्तयोः काऽपि भिदा वैलक्षण्यं नास्ति । अतोऽनयोः मैत्री उचिता, उभयोरपि तुल्यधर्मकत्वादिति भावः । पक्षे पतगाधिपपन्नगाधिपशब्दयोः, तन्नभिदेति समस्तं पदम् । तकारद्वित्वघटितनकाराभ्यामेव भेदः, पकारगकारादिवर्णानामुभयत्र तौल्यादिति भावः । अत्र पतगपन्नगाधिपयोरन्योन्यमैत्र्या आनुरूप्यम् ॥