पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
441
समालङ्कारसरः (४१)

 यथावा--

 कर्पूरं तव मुखमपि चन्द्राभिख्योज्ज्वलं तथा सुरभि । उरगाचलशिखरशशिन्नुचितं खलु तस्य तल्ललामत्वम् ॥ १३११ ॥

 चन्द्राभिख्यया चन्द्रनाम्ना उज्ज्वलं ‘घनसारश्चन्द्रसंज्ञः’ इत्यनुशासनात् । पक्षे चन्द्रनिभशोभाविभासुरं । तथा तद्वत् सुरभि सुगन्धि, पक्षे मनोज्ञं 'सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभिस्स्मृतः’ इति विश्वः । तथासुरभीति समस्तं वा पदम् । लोकोत्तरसौरभशालीत्यर्थः । तस्य कर्पूरस्य तल्ललामत्वं त्वद्वदनस्य पुण्ड्रत्वं भूषणत्वं वा, कोशस्तूक्तः । अत्राद्य उदाहरणे परस्परमनुरूपयोः श्रीनिवासश्रीप्रदानयोः, द्वितीये स्वालोककरणकभुवनाभिवर्धनादिविधुत्वयोः, तृतीये काञ्चिकामध्यस्थत्वयोः तुरीये नयननलिनसख्ययोः, पञ्चमषष्ठयोरुदाहरणयोर्घनसारश्रीनिवासमुखललामत्वयोस्संसर्गस्य वर्णनम् ॥

 यथावा--

 फणिवृषभाचलभास्वन् शुभाश्रयं तव विभावयन्नन्तः । तत्क्रतुनयादिहैव हि शुभाश्रयोऽभवमरेफसंसर्गः ॥ १३१२ ॥

 हे फणिवृषभाचलभास्वन्! तव शुभश्चासावाश्रयश्च ध्यानालम्बनभूतो दिव्यमङ्गळविग्रहः तं अन्तः विभावयन् ध्यायन् अहं तत्क्रतुनयात् ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति' इति श्रुतिप्रतिपादितयथाक्रतुन्यायात् । क्र-

 ALANKARA II
56