पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
440
अलङ्कारमणिहारे

 यथावा--

 अपि यत्प्रसव्यभावे ननु घनसारो रसानघस्तदयम् । घनसारस्याच्युत तव रसानघस्योचितं ललाममिति ॥ १३१० ॥

 ननु अच्युत ! यत् यस्मात् घनसारः कर्पूरः प्रसव्यः प्रतिकूलः भावः स्वभावो यस्य तस्मिन्नपि जने रसानघः रसेन प्रीत्या अनघः निर्दोषप्रीतिरिति भावः । रसः अनघः यस्येति वा विग्रहः । अपिशब्देन अनुकूलस्वभावे रसानघत्वं कैमुतिकन्यायसिद्धमिति द्योतितम् । वस्तुतस्तु घनसारशब्दः प्रतिकूलत्वे रसानघ इति निष्पद्यत इत्यर्थः । ‘प्रसव्यं सव्य आयत्ते प्रतिकूलांनुकूलयोः' इति रत्नमाला । तत् तस्मात् अयं ईदृशो घनसारः घनस्सारः बलं यस्य तस्य घनसारस्य, प्रसव्यभावेऽपीत्येतदत्राण्यनुषज्यते । अनुकूलस्वभावे पुंसीव प्रतिकूलस्वभावेऽपि विषये इति तदर्थः । रसानघः निर्दोषप्रीतिशाली, न हि महोदारस्यास्य प्रीतिविषये प्रतिकूलानुकूलकक्ष्याविभागोऽस्तीति भावः । यद्रा रसः आनन्दोपलक्षितानन्तकल्याणगुणाकरः अनघः अखिलहेयप्रत्यनीक इत्यर्थः । चेतनः अनुकूलः प्रतिकूलोवाऽस्तु तदानुकूल्यप्रातिकूल्याभ्यां स्वाभाविकस्यैतदुभयलिङ्गत्वस्य न कश्चिद्विशेषस्संभवतीति भावः । ईदृशस्य तव ललामं दिव्यवदने पुण्ड्रं भवतीत्युचितं, उभयोरपि घनसारत्वरसानघत्वाभ्यामानुरूप्यादिति भावः । 'ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु' इत्यमरः । प्रसिद्धं हि श्रीनिवासस्य भगवतः कर्पूरोर्ध्वपुण्ड्रशोभमानफालफलकत्वम् ॥