पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
439
समालङ्कारसरः (४१)

मध्यस्थता अवलग्नलग्नता उचितेति वस्तुस्थितिः । तस्याः मध्यैकभूषणत्वादिति भावः ॥

 यथावा--

 आद्यन्ततुल्यरूपं विभिन्नवर्णमपि मध्यतस्तव भगवन् । नयनं नलिनं च कदाऽप्यप्रतिकूलं तदुचितमनयोस्सख्यम् ॥ १३०९ ॥

 हे भगवन्! तव नयनं नलिनं च आद्यन्तयोः मूलापाङ्गयोः प्रथमचरमभागयोश्च तुल्यरूपं उभयोरप्यरुणवर्णत्वात्, तुल्याक्षरं च अनयोशब्दयोराद्यन्तयोर्नकारघटितत्वात् । मध्ये मध्यभागे विभिन्नवर्णं परस्परविलक्षणवर्णमपि नयनस्य मध्ये कनीनिकया नैल्यात् नलिनस्य तु कर्णिकया पिशङ्गत्वादिति भावः । पक्षे य लि इत्यन्योन्यविलक्षणमध्यमाक्षरमात्रमित्यर्थः । सदाऽपि अप्रतिकूलं अन्योन्यप्रातिकूल्यरहितं अविरुद्धभूयोधर्मवत्तया यत्किंचिद्विरुद्धधर्मवत्ताया अकिंचित्करत्वादिति भावः । शब्दपक्षे सदाऽपि आनुलोम्य इव प्रातिलोम्येऽपीति भावः । अप्रतिकूलं अविकृतानुपूर्वीकमेव । तत् तस्मात् अनयोः नयननलिनयोः सख्यं उचितमेव यत्किंचिद्धर्मवैलक्षण्येऽपि तयोर्भूयोधर्मवत्तायास्सद्भावात्साम्यं युक्तमिति भावः । किंच अत्र तव नयनमित्यनेन भगवतो भानुरूपं नयनमेव चेद्विवक्ष्येत तदाऽप्यमूनि विशेषणान्युभयसाधारणान्येव । यथा आद्यन्ततुल्यरूपत्वमनयोरुभयोरप्यरुणवर्णत्वात् । मध्ये विभिन्नवर्णत्वं च भानोर्मध्येऽप्यरुणवर्णत्वात्, नलिनस्य उक्तरीत्या मध्ये पिशङ्गवर्णत्वाच्च । सदाऽप्यप्रतिकूलत्वं तूभयोरानुकूल्यस्य लोकवेदविश्रुतत्वात् । तस्माद्भानुनलिनयोस्सख्यमुचितमेवेति । अन्यत्तुल्यम् ॥