पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


अथ समालंकारसरः. (४१)


यत्रानुरूपघटनं वर्ण्यते तत्समं विदुः ॥

 परस्परमनुरूपयोस्संसर्गस्य वर्णनं समालंकारः । अत्रापि संसर्गो विषम इव संयोगलक्षण उत्पत्त्यादिलक्षणश्चेतीदं सर्वप्रकारसाधारणं लक्षणम् । तत्र संयोगादिलक्षणस्य संसर्गस्यानुरूपता च द्वेधा-- स्तुतिपर्यवसायिनी निन्दापर्यवसायिनी चेति । इदं प्रथमविषमप्रतिद्वन्द्वि समम् ॥

 तत्राद्या यथा--

 स्थानं श्रीशैलस्तव नूनं त्वं श्रीनिवास एवासि । दानं श्रियश्श्रितेभ्यस्सानन्दं वितरसीति युक्तमिदम् ॥ १३०६ ॥

 यथावा--

 स्वालोकैर्वर्धयसे विबुधाग्रसरस्वतो हरे भुवनम् । कैरवमता तव श्रीर्मन्ये त्वं विधुरसीत्युचितमेव ॥ १३०७ ॥

 हे विबुधाग्रसर त्रिदशश्रेष्ठ! अग्रे सरतीत्यग्रसर इति विग्रहः । ‘पुरोऽग्रतोऽग्रेषु सर्तेः’ इति टः । ‘यूधं तदग्रसरगर्वितकृष्णसारम्' इत्यादाविव बाहुलकादग्रशब्दस्य एदन्तत्वनिपातनाभावः। हे हरे ! आलोकैः कटाक्षैः ‘तदैक्षत बहु स्याम्'