पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
436
अलंङ्कारमणिहारे

 हे हरे! नित्यं भवे संसारे भ्रमेण चङ्क्रमणेन देहात्मभ्रमेण वा खिन्नोऽस्मीति निर्वेदोक्तिः । अतः अभ्रान्तः नित्यसंचारविधुरो देहात्मभ्रमविधुरो वा सन् हरिपदे भगवन्मन्दिरे क्वचन तत्रापि यत्रक्वचित् सततं सदा स्यां निवसेयम् ।

यत्किंचिदपि कुर्वाणो विष्णोरायतने वसेत् ।
न किंचिदपि कुर्वाणो विष्णोरायतने वसेत् ॥

इति भगवच्छास्त्रादिति भावः । इति कृतयतनोऽपि इन्दुः प्रावृषि केवलं वर्षासमयमात्रे ईप्सितं पूर्वोक्तमभीष्टं अविन्दत न त्वन्यदा । प्रावृष्येव चन्द्रमा विष्णुपदे क्वचन अभ्रान्तस्थितिमानभूत् न तु शरदादावित्यर्थः । वस्तुस्थितिस्तु नित्यभवः सततं जातः यो भ्रमः मेरुप्रदक्षिणसंचारः तेन खिन्नः हरिपदे अन्तरिक्षे क्वचन अभ्रान्तः जलभृदन्तरे स्थितिमानिति । अत्रेन्दोर्यत्किंचित्कालिकेष्टावप्तिरेव, न सार्वकालिकेष्टावाप्तिः श्लेषमहिम्नैव ॥

 एवं प्रागुपदर्शितेषूदाहरणेषु प्रायेण श्लेषमूलाभेदाध्यवसायवैभवेनानिष्टप्राप्तीष्टानवाप्ती प्रदर्शिते अपि व्युत्पित्सुबालबुद्धिवैशद्याय पुनर्विविच्य प्रदर्शिते ॥

 एवमेतेषु सर्वेषूत्पाद्योत्पादकभावरूपसंसर्गगर्भेषु प्रभेदेषु कार्यकारणयोः क्वचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात् क्वचिच्चेष्टापादकत्वेनाभिमतस्य कारणस्येष्टानवाप्त्यनिष्टावाप्तिरूपकार्येणानुरूप्याभावात्सामान्यलक्षणानुगतिरिति ध्येयम् ॥

इत्यलङ्कारमणिहारे विषमालंकारसरश्चत्वारिंशः ॥