पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
430
अलंकारमणिहारे

 हे अरविन्दनयन! मिळिन्दः भ्रमरः त्वद्धामतां त्वदालयतां त्वत्तुल्यच्छवितामिति तत्त्वम् । अभीप्सुः अत एव स्वकं निजं मितस्फुरणं अल्पप्रकारां त्यजन् । पक्षे मिळिन्दशब्दः मितः मिवर्णेन मिवर्णस्य वा स्फुरणम् । मित इत्यत्र सार्वविभक्तिकस्तसिः । विसर्गस्य ‘खर्परे शरि वा विसर्गलोपो वक्तव्यः’ इति पाक्षिको लोपः । त्यजन्नपि मिवर्णसंबन्धं विसृजन्नित्यर्थः । अमितश्रिया प्रचुरत्विषा संपदा वा, शकारस्य ‘अनचि च' इति द्वित्वम् । पक्षे अं इतः श्रिया इति छेदः । अं अवर्णं इतः प्राप्तः श्रिया स्फुरन्नपि अर्थवत्तारूपसंपदा प्रकाशमानोऽपि अळिन्द एव बहिर्द्वारप्रकोष्ठक एव अभूत् । न तु समग्रं त्वद्धामेति भावः । 'प्रघाणप्रघणाळिन्दा । बहिर्द्वारप्रकोष्ठके' इत्यमरः । पक्षे मिकारस्थाने अकारं प्राप्तः अळिन्दशब्द एवाभूदित्यर्थः । अत्र ‘न गिरा गिरेति ब्रूयादिरां कृत्वोद्गायेत्' इत्यत्र गिरापदं प्रतिषिध्य विधीयमानमिरापदं यथा गिरापदस्थान एव भवति तथाऽत्रापि मिवर्णं प्रतिषिध्य विधीयमानमवर्णं मिकारस्थान एव भवति । अत एव ‘कुषिरञ्ज्योः प्राचां श्यन्परस्मैपदं च' इत्यत्र यकं प्रतिषिध्य विधीयमानश्श्यन् तदीय एव स्थाने भवतीति तत्त्वबोधिन्यादावुक्तं संगच्छते । अत्र मिळिन्दस्य स्वाभीप्सितभगवत्परिपूर्णदिव्यालयत्वानवाप्त्या तदेकदेशभूताळिन्दत्वप्राप्तिरपीष्टानवाप्तिरेवेति ध्येयम् ॥

 यत्रेष्टानवाप्तिपूर्वकमनभीप्सितस्य यस्यकस्यचिदुदासीनस्य वाऽर्थस्यावाप्तिर्निबध्यते तत्रापि केवलेष्टानवाप्तिरेव । यथा--

 त्वत्पादसरिदभिख्यालाभायाधश्शिरास्स घनसारः । भूत्वा रसानघोऽपि श्रीश श्रीपादरेणुनामाऽभूत् ॥ १२९८ ॥