पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
429
विषमालङ्कारसरः (४०)

 कदाचिदिष्टावाप्तिपूर्वकतदनवाप्तिर्यथा--

 त्वद्गिरिपरिसरगमने क्षणमात्रं तत्तटस्फटिकभाभिः । मुषितकलङ्कस्त्वन्मुखसदृशो विधुरथ यथापुरं भवति ॥ १२९५ ॥

 अथ त्वद्गिरिपरिसरातिवर्तनानन्तरं यथापुरं भवति स्फटिकरुचीनां दवीयस्त्वाद्यथापूर्वं प्रकटकलङ्क एव भवति । अत्र चन्द्रमसो विकलङ्कवेंकटनाथवदनसादृश्यमभीप्सतो वेङ्कटगिरिपरिसरगमनावसरे क्षणमात्रमेव तल्लाभो न सार्वकालिक इति कदाचिदिष्टप्राप्तिपूर्वकतदनवाप्तिः ॥

 क्वचिदिष्टानवाप्तावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः । यथा-

 नवनीतहृदागत इति नवनीरदशिशुमवेक्ष्य निकटगतम्। तं भ्रमवती निबद्धुं संभ्रमतोऽयतत काऽपि गोपवधूः ॥ १२१६ ॥

 अत्र नवनीतचोरनन्दकिशोरबन्धनजातकौतुकायास्समयं प्रतीक्षमाणायाः गोपवामेक्षणायाः कस्याश्चित्तदीप्सितालाभेऽपि तल्लाभभ्रमो दर्शितः ॥

 यत्र समग्रेष्टालाभेन तदेकदेशमात्रावाप्तिस्तत्रापि तदनवाप्तिरेव । यथा--

 त्वद्धामतामभीप्सुस्त्यजन्मिळिन्दस्स्वकं मितस्फुरणम् । अमितश्रिया स्फुरन्नप्यळिन्द एवारविन्दनयनाभूत् ॥ १२९७ ॥