पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
428
अलंकारमणिहारे

शिचरकुलस्य भगवत्प्रतापनिरूष्मताकरणलक्षणेष्टानवाप्तिस्संभावनारूपेण दर्शिता । एवं तृतीयविषमप्रभेदे अष्टाववान्तरप्रभेदा उपदर्शिताः । भेदान्तराण्यप्येवमेवोदाहार्याणीति विस्तरातिभूमिभयाद्विरम्यते ॥

 यत्र केनचित्स्वेष्टसिद्ध्यर्थं नियुक्तेनान्येन नियोक्तुरिष्टमनादृत्य स्वस्यैवेष्टं साध्यते तत्रापीष्टानवाप्तिरूपमेव विषममिति कुवलयानन्दकाराः । तद्यथा--

 मम धीरियमिति दयितं समया प्रहिता मया ससंभ्रमया । सा नाम तत्र लीना किं तनवानीत्यचिन्तयद्राधा ॥ १२९४ ॥

 इयं मदीयेति विस्रम्भेण मम धीः दयितं नन्दनन्दनं समयातं प्रतीति यावत् । 'अभितः परितस्समया’ इत्यादिना द्वितीया । ससंभ्रमया अदूरदर्शिन्येति यावत् । मया प्रहिता प्रेषिता । धीशब्दस्य स्त्रीलिङ्गतया तस्यां दूतीत्वसमाधिर्गम्यते । सा धीः तत्र दयित एव ‘सर्वं वाक्यं सावधारणम्’ इति न्यायात्, लीना नाम । इतरैः पृथग्दुर्ग्रहतया तत्रैव तदाश्लेषेणैक्यं प्राप्तेति भावः । ‘ली श्लेषणे' कर्तरि क्तः । पक्षे तदाकाराकारितेति भावः । नामेति संभावनायाम् । निलीनेति मन्य इत्यर्थः । कुत्सने वा । धिक्तां दयितं प्रति अद्रोहिणीति प्रत्ययेन मया प्रहितां तत्रैव रममाणामिति भावः । 'नाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने' इत्यमरः । किं तनवानि किं करवाणीति राधा अचिन्तयत् । अत्र नियोक्त्र्या राधाया अभीष्टमनादृत्य धिया स्वेष्टमेव साधितम् । समासोक्तिसंकीर्णमिदं विषमम् ॥