पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
427
विषमालङ्कारसरः (४०)

 हे भगवन्निति प्रकरणाल्लभ्यते । त्वदीयः त्वद्भक्तः श्रीदश्रीः धनदतुल्यविभवः धीरधीः महामतिः, आभ्यां संपत्सारस्वतोभयसमृद्धिरुक्ता । अत एव प्रदीप्रः अतिमात्रद्युतिशाली च सन् यत्पदं ऐहिकमामुष्मिकमापवर्गिकं वा स्थानं इयात् प्राप्नुयात् तत्पदस्य तदार्जितस्य स्थानस्य विपर्ययाय प्रळयाय कृतप्रयत्नोऽपि को वा प्रभवेत् न कोऽपीति भावः । यद्वा कः ब्रह्माऽपि प्रभवेद्वा इति योजना । सोऽपि न प्रभवेदेवेति भावः । पक्षे त्वदीयः यत्पदं श्रीदश्रीरित्यादिकं यत्पदं इयात् तत्पदस्य विपर्ययाय वैलोम्याय कृतप्रयत्नऽपि को वा प्रभवेत् । महता यत्नेन प्रातिलोम्येन पाठेऽपि पूर्वानुपूर्व्या एव विद्यमानत्वात् । अत्र भगवद्भक्तसाधितपदविपर्यासलक्षणपरानिष्टप्रापणरूपेष्टार्थालाभः पृथग्जनस्य वर्णितः । इदं श्लेषसंकीर्णम् । पूर्वोदाहरणे तु शुद्धे ॥

 यथावा--

 यद्यचिकीर्षिष्यत ते प्रतापमतिभीष्ममपगतोष्माणम् । निशिचरकुलमभविष्यत्स तदाऽप्यतिभीम एव दाशरथे ॥ १२९३ ॥

 हे दाशरथे! निशिचरकुलं कर्तृ अतिभीष्मं अतिदारुणं ते तव प्रतापं अपगतः ऊष्मा उष्णता दारुणत्वं यस्य तं तथोक्तं अचिकीर्षिष्यत यदि कर्तुमैषिष्यच्चेत् । करोतेस्सन्नन्तात्क्रियातिपत्तौ लृङ् । तदाऽपि सः तव प्रतापः अतिभीम एव अभविष्यत् अनपनोद्योष्मतया अतिभीष्म एव समपत्स्यतेति भावः । पक्षे अतिभीष्मशब्दं षकाररूपोष्मवर्णविधुरं समपादयिष्यत चेत् अतिभीम इत्येव स निरपत्स्यतेत्यर्थोऽपि चमत्कारी । अत्र नि-