पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
420
अलङ्कारमणिहारे

वस्तुतस्तु अरिदरगदाकरत्वं चक्रशङ्खगदापाणित्वामित्यर्थः । भगवत्सारूप्यमिति भावः । अत्रापि अरिदरगदाकरत्वलक्षणानर्थपरिहाररूपेष्टानवाप्तिश्श्लेषमहिम्ना निबद्धा ॥

 यथावा--

 त्वद्वदनरुचिद्वेषाच्छ्वाद्यत्वं प्राप्य तद्व्यपनुनुत्सुः । अधरितशिरा भवन्नपि स पुष्करे तज्जहौ न शुभ्रांशुः ॥ १२८२ ॥

 हे भगवन् ! शुभ्रांशुः चन्द्रमाः त्वद्वदनरुचौ द्वेषात् श्वाद्यत्वं शुनामादित्वं शुनकाग्रेसरत्वमित्यर्थः । श्वा आद्यः भक्ष्यो यस्येति वा श्वपाकत्वमित्यर्थः । प्राप्य,

देवं नारायणं विष्णुं यो द्वेष्टि जगतां प्रभुम् ।
श्वानयोनिसहस्रान्ते श्वपाकेषु स जायते ॥

 इति स्मरणात् । भगवद्वदनारविन्दविद्वेषस्येदमल्पं फलमिति भावः । पक्षे शुवर्णः आद्यः प्राथमिको यस्य सः श्वाद्यः तत्त्वम् । वाच्यवाचकयोस्तादात्म्यात् । प्राप्य तत् श्वाद्यत्वं व्यपनुनुत्सुः व्यपनोदितुमिच्छुः पुष्करे तन्नाम्नि तीर्थविशेषे अन्तरिक्षे च । अधरितशिराः अवाक्छीर्षो भवन्नपि तथा तपस्यन्नपीति भावः । अस्ताभिमुख्यदशायामन्तरिक्षे चन्द्रबिम्बस्य अवाक्छिरस्त्वेन दर्शनात्तथोक्तिः । पक्षे विलोमतया स्थितोऽपीत्यर्थः । तत् श्वाद्य वं न जहौ । यथापुरं शुनामग्रणीः श्वभक्षकी वाऽभूत् । न तु स्वाभीप्सितं लब्धवान् । भगवद्विद्वेषिणां पुण्यतीर्थनिषेवणमपि न शोधकमिति भावः ।

ये द्विषन्ति महात्मानं न स्मरन्ति च केशवम् ।
न तेषां पुण्यतीर्थेषु गतिस्संसर्गिणामपि ॥