पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
414
अलंकारमणिहारे

 कालिका कादम्बिनी । ‘मेघजालेऽपि कालिक’ इत्यमरः । अत्रापि कालिकाया इष्टानवाप्तिमात्रं पूर्वरूपसंभावनासंकीर्णम् ॥

 केवलानिष्टप्रतिलम्भो यथा--

 पद्माकरपद्मस्थितियोग्यं स्यामिति विवल्गसि न वेत्सि । तेन परिभूतिमम्बुज जडजातत्वं । तवैतदेव खलु ॥ १२७२ ॥

 हे अम्बुज! पद्मायाः लक्ष्म्याः करपद्मे पाणिपङ्कजे या स्थितिः अवस्थानं तस्याः योग्यं स्यामिति विवल्गसि उत्प्लवसे । तेन श्रीपाणिपद्मेन । तवेत्येतदुत्तरवाक्यादपकृष्यते । तव परिभूतिं न वेत्सि । ‘उभयप्राप्तौ कर्मणि’ इति कर्मण्यवे षष्ठी न तु कर्तरि। स्पष्टमन्यत् ॥

 यथावा--

 अधिरोहसि वृषभूमिभृदधित्यकां घन रमेशसेवेच्छुः । स हि हरते तव लक्ष्मीं न हि जडहृद्वेद भाविनमनर्थम् ॥ १२७३ ॥

 हे घन! हे जीमूत! वृषभूमिभृतः आधत्यकां ऊर्ध्वभूमिं ‘भूमिरूर्ध्वमधित्यका' इत्यमरः । जडहृत् स्तब्धमनाः लडयोरभेदात् जलं हृदि अन्तःप्रदेशे यस्य स तथोक्तः । समुद्राज्जलं हरतीति वा तथोक्तः । स्फुटार्थमन्यत् । अत्र उदाहरणद्वये क्रमेण अम्बुजाम्बुदयोर्लक्ष्मीकरपद्मस्थितियोग्यत्वभाग्यश्रीनिवाससेवाभागधेयरूपेष्टार्थलाभौ स्त एव । किंतु तत्कर्तृकपरिभूतिलक्ष्मीहरणरूपोत्कटानिष्टप्रतिलम्भावपीति केवलानिष्टप्रतिलम्भरूपविषमामदम् ॥