पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
406
अलंकारमणिहारे

भागवतैः शेषावतारैर्भगवद्रामानुजमुनिभिरिति हृदयम् । पूजायां बहुवचनम् । अपास्ताः निरस्तास्सन्तः षण्डाः क्लीबकल्पाः निष्पौरुषा अभवन् । पक्षे पाषण्डाः पास्ताः निरस्तपावर्णाः षण्डा इति निष्पन्ना इत्यर्थोऽपि चमत्कारी ॥

 अत्र विपक्षोपप्लवविक्लबतया प्रार्थयमानाय भक्तिधनाय कस्मैचिन्महीक्षिते रक्षणार्थं वितीर्णशङ्खचक्रतया शन्यपाणिं दिव्यार्चारूपं भगवन्तं अयं सुब्रह्मण्य एवेति स्ववशे विधातुं तं विवदमानाः कतिचन पाषण्डाः स्वमहिम्ना शेषरूपतो भगवदालय सोमसुत्रान्तराळात्प्रविश्य तमर्चारूपं भगवन्तं ग्राहितशङ्खचक्रं विदधानैश्श्रीभाष्यकारैर्निरस्ता इत्यैतिह्यमनुसंहितम् । अत्र पाषण्डानां त्वद्धामाक्रमणरूपपरानिष्टप्रापणलक्षणेष्टानवाप्तिः षण्डता रूपानिष्टप्राप्तिश्च ॥

निविवेदयिषुश्शौरेस्तद्दत्तां विश्वतोमुखम् ।
कवितां हन्त नास्मार्षं बहूदाहृतिसाध्वसम् ॥

 एवं परस्य दुःखसाधनप्रापणरूपेष्टाप्राप्तिः स्वस्य दुःखसाधनरूपानिष्टप्राप्तिश्चेत्युभयं दर्शितम् । परस्य सुखसाधननिवृत्तिरूपेष्टार्थोद्योगात्तदनिवृत्तिः, स्वस्य दुःखसाधनप्राप्तिश्चेत्युभयं यथा--

 दशवदनः किल पतिसुखविकलां विपुलात्मजां विधातुमनाः । निजदयितामेव तथा व्यधित रघूत्तमशराहतिव्यथितः ॥ १२५९ ॥

 व्यधित विपूर्वकाद्वधातेरात्मनेपदिनः कर्तरि लुङ्, अकार्षीदित्यर्थः । अत्र रावणेन चिकीर्षितं भगवत्या वैदेह्याः पतिसुखवैकल्यं न कृतं, किंतु स्वदयिताया एव तत्संपादितम् । यद्यपि-