पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
402
अलंकारमणिहारे

इत्यादौ प्रसिद्ध्यति । अत एव अलसः प्रतिकर्तुमपटुः दूनः परितप्तश्च अलसदूनः विशेषणोभयपदकर्मधारयः । अत एव अन्ते दूरतरप्रदेशे साधवो ये विप्राः तैः कृष्टः निष्कासितः साधूनां सतां विप्रकृष्टः दूरस्थ इति वा । 'स्याद्दूरं विप्रकृष्टकम्' इत्यमरः । बहिष्कृत इति भावः । साधु यथास्यात्तथा वीनां पक्षिणां प्रकृष्टः श्रेष्ठ इति वस्तुस्थितिः । चार्वाकः चार्वाकमतावलम्बी भवति । अनुपादेयवचनो भवतीति भावः । यथोच्यते चतुर्विंशतिमते--

अर्हच्चार्वाकवाक्यानि बुद्धादिपठितानि च ।
विप्रलम्भकवाक्यानि तानि सर्वाणि वर्जयेत् ॥

इति । पक्षे भवतीति संबुद्ध्यन्तम् । हे भवति! पूज्ये इत्यर्थः । अलसदून इत्यत्र अलसत् ऊनः इति च्छेदः । चारुवाकशब्दः ऊनः उकारेण न्यूनः चार्वाक इति निष्पन्नस्सन् अलसदिति योजना । लसतेर्लङ् । यद्वा अलसत् रलयोरभेदात् अरसत् जलदवन्निरर्थकं शब्दमकरोत् अक्रन्ददिति यावत् । ‘रस शब्दे’ अस्माद्भौवादिकाल्लङ् । अत्र श्रीवचनाभिभवेच्छोरमलद्विजस्य न तदलाभ एव, परं तु तदवगणिततया अलसदूनत्वाद्यनिष्टप्रतिलम्भश्च शब्दार्थतादत्म्यावलम्बिश्लेषभित्तिकाभेदाध्यवसायातिशयसौभाग्यसमासादितोत्कर्ष इति ध्येयम् ॥

 यथावा--

 अम्ब तवोरुस्पर्धिन्यासीद्बत कदलिकापदाऽभिहता । कलिका सत्यथ नखरैर्वृद्धा भूत्वाऽथ कालिका चिकुरैः ॥ १२५४ ॥

 हे अम्ब! कदलिका रम्भा । स्त्री एकाकिनीति भावः । पक्षे-- कदलिकेति शब्दव्यक्तिः तव ऊरुभ्यां 'सक्थि क्लीबे पुमानूरुः'