पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
398
अलंकारमणिहारे

समस्तं पदम् । अरुर्भिः व्रणैः अविद्यमाना गौर्यस्य तथोक्तः आसीत् ‘गोस्त्रियोः' इति ह्रस्वे एच इगादेशः । व्रणवेदनासंभ्रान्ततया 'दिशो मे विप्रणश्यन्ति' इत्युक्तरीत्या विनष्टदिग्विवेकः प्रणष्टवाग्व्यवहारो वा प्रतिहतदृष्टिप्रसरो वाऽभवदित्यर्थः । 'स्वर्गेषुपशुवाग्वज्रिदिङ्नेत्रघृणिभूजले । लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इत्यमरः । नित्यपुल्लिङ्गं परिमळशब्दं विभाषितपुंस्त्वं अगरुशब्दं च प्रयुञ्चानस्य कवेरयमाशयः— नित्यपौरुषेण पुंसा कादाचित्कपौरुषशाली कश्चित्पुमान् स्पर्धमानस्तेनावधीरित ईदृशीं दुरवस्थां प्राप्नुयादेवेति । पक्षे अरुः रुवर्णविधुरः अगुः अगुरिति निष्पन्नोऽभूदित्यर्थः । प्रथमं अगुरिति स्थितः ततो गकारलोपे अरुर्भूत्वा ततः अरुवर्णयोरन्तरे गुवर्णन्यासे अगुरुरिति ततश्च रुवर्णलोपे अगुरिति निष्पन्नोऽभूदयं शब्द इति निर्गळितोऽर्थः ॥

 यथावा--

 कीरस्तव तनुरुचिजयमीप्सुर्विधुतस्तया श्रियः कान्त । व्यत्यासितस्वरव्यञ्जनः करी भवतु तद्गतिमियात्किम् ॥ १२४९ ॥

 हे श्रियः कान्त! कीरः शुकः ‘कीरशुकौ समौ’ इत्यमरः । त्वत्तनुरुचिजयं ईप्सुः हरितश्यामलवर्णयोरैक्यस्य कविसमयसिद्धत्वाच्छुकस्य भगवत्तनुरुचिजयेप्सुतोक्तिः । तथा चोक्तमलंकारशेखरे--

कमलसंपदोः कृष्णहरितोर्नागसर्पयोः ।
पीतलोहितयोस्स्वर्णपरागाग्निशिखादिषु ॥