पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
397
विषमालङ्कारसरः (४०)

 हे जगज्जननि! अगरुः राजार्हाख्यगन्धद्रव्यविशेषः प्रसिद्धः । 'वंशकागरुराजार्हलोहक्रिमिजजोऽङ्गकम्' इत्यमरः । पुल्लिंङ्गोऽप्ययं, तथाच द्विरूपकोशे श्रीहर्षः—- ‘अगरुश्चागुरुश्च' इति । हेमचन्द्रोऽप्यभिधानचिन्तामणौ ‘अगुरुस्त्वगरौ लघौ । शिंशुपायाम्' इति । वोपालितादयोऽप्येवम् । प्रयोगश्च ‘शीतकृत्तेऽगुरोर्मदः' इति । श्रीपरिमळाभिबुभूषुरिति गम्यते । अगमध्यस्थोऽपि तरूणां गिरीणां वा मध्ये स्थितोऽपि । अनेन--

धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥
सर्वेणापि प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥

इत्युक्तप्रकारेण अगदुर्गस्थितत्वं व्यज्यते । त्वत्परिमळेन त्वदङ्गसौरभेण । अस्य वीरपुरुषत्वं गम्यते वक्ष्यमाणार्थानुगुण्यात् । विद्धः शस्त्रादिना क्षतः परास्त इति तत्वम् । अत एव अरुर्भिः व्रणैः स्फुरन्ती मूर्तिर्यस्य स तथोक्तः । ‘व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । पक्षे अगरु: अगरुशब्दः ग: गकारः मध्यस्थो यस्य स न भवतीत्यगमध्यस्थः । तथाऽपि अरुस्फुरन्मूर्तिः अकाररुवर्णाभ्यां प्रकाशमानस्वरूपः गकारच्युतावपि अरु इति वर्णद्वयमात्रावशिष्ट इत्यर्थः । ततः मध्यस्थगुः मध्ये शरीरमध्ये स्थगु उरोनिस्सृतोन्नतविकृतावयवविशेषो यस्य स तथोक्तः ‘तवेदं स्थगु यद्दीर्घम्’ इत्यत्र श्रीरामायणभूषणे एवमेव विवृतम् । अतिमात्रविद्धतयाऽन्तर्भग्नोन्नद्धास्थिविशेषविकृत इति भावः । अत एव अगुरुः गौरवहीन इत्यर्थः । पक्षे मध्यस्थः गुः गुवर्णो यस्य तथोक्तस्सन् । अवशिष्टः अरुशब्दः मध्ये गुवर्णन्यसनेन अगुरुरिति निष्पन्नस्सन्नित्यर्थः । अरुरगुरिति