पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
396
अलंकारमणिहारे

नवाप्तिः किंतु विकलितत्वाद्यनिष्टप्राप्तिश्च । एवं तस्यैवामलमुकुग्रूपजन्मान्तरेऽपि न केवलं श्रीकपोलपरिभवरूपेष्टालाभः किंतु ताभ्यां स्वस्य धूननरूपानिष्टप्रतिलम्भश्च । एवं सर्वत्रापि बोध्यम् ॥

यथावा--

 निजविजयेप्सु तवाधररुचा परास्तं स्ववर्णतस्स्रस्तम् । घुणतां प्रपद्य घुसृणं लीनं काष्ठान्तरे क्वचित्सुषिरे ॥ १२४७ ॥

हे अम्ब! घुसृणं काश्मीरजं कुंकुममित्यर्थः । निजविजयेप्सु स्वकर्तृकत्वदधरकर्मकाभिभवप्रेप्सु । अत एव तव अधररुचा | परास्तं अवधीरितं अत एव स्ववर्णतः स्वकीयसुषमाया अपीति यावत् । स्रस्तं ध्वस्तं निस्तेजस्कमिति भावः । पक्षे घुसृणमिति पदं स्ववर्णतः आद्यादित्वात्सप्तम्यास्तसिः । स्वघटकवर्णेष्वित्यर्थः । स्रस्तः सृ इति वर्णः अस्तः निरस्तः यस्य तत्तथोक्तम् । सृ अस्त इति स्थिते यणादेशः । निस्सारितसृकारं सदित्यर्थः । घुणतां कीटतां पक्षे घुणशब्दतां प्रपद्य काष्ठान्तरे स्वनिवासाद्भ्रष्टं क्वापि दिगन्तरे, तत्रापि क्वचित्सुषिरे क्वापि कोणे । काष्ठान्तरे दार्वन्तरे तत्रापि क्वचिच्छिद्रे इति चोपस्कार्यम्। घुणानां दारुच्छिद्रान्तरावस्थानस्य प्रसिद्धत्वात् । लीनं लयं प्राप्तम् ॥

यथावा--

 त्वत्परिमळविद्धोऽगुरुरगमध्यस्थोऽप्यरुस्फुरन्मूर्तिः । मध्यस्थगुरगुरुस्सन्नगुरगुरासीत्ततो जगज्जननि ॥ १२४८ ॥