पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
391
विषमालङ्कारसरः (४०)

 यथावा--

 तावककीर्तिविजित्यै संमुखमुपयन्नथान्तरा भगवन् । शासनतश्च्युतवर्णस्सशङ्क एवाभवत्खलु शशाङ्कः ॥ १२४१ ॥

 हे भगवन् ! शशाङ्कः तावककीर्तेः विजित्यै विजयं कर्तुं कुतुकात् संमुखं अभिमुखं उपयन् । पक्षे मुखं सर्ववर्णेभ्योप्यादिमं सं सकारं प्राप्नुवन् सन्, अथ अविलम्बेनैव अन्तरा अस्मिन्नेवावसर इत्यर्थः । पक्षे मध्यभागे । शासनतः तदतिक्रमानुरूपात्त्वत्कृताच्छिक्षणात् । पक्षे शा इति वर्णस्य असनतः निरसनात् । च्युतवर्णः गळिततेजाः निरस्ताक्षरश्च सन् सशङ्क एव सव्यध एव अभवत् । पक्षे शशाङ्कशब्दः आदौ सकारन्यसनेन मध्ये शावर्णभ्रंशनेन च सशङ्क इति निष्पन्न इत्यर्थः ॥

 यथावा--

 त्वन्नखजिगीषुरेतैस्तलातलिहतोऽन्ततो विसर्गमयन् । दूनो भूत्वा भगवन्निन्दुः केवलमिनाश्रितः प्राणीत् ॥ १२४२ ॥

 हे भगवन्! इन्दुः त्वन्नखजिगीषुः अत एव तैः नखैः तलातलि तलैस्तलैः प्रहृत्येदं प्रवृत्तं युद्धं तलातलि । तस्मिन् हतः प्रहृतः अन्ततः विसर्गं अयन् प्राप्नुवन् दयया जीवेति दूरमुत्सृष्ट इति भावः । अत एव अतितरां दूनः परितप्तः भूत्वा केवलं इनाश्रितः अप्रसिद्धप्रभुसमाश्रितः प्राणीत् । यद्वा-- इनाश्रितः कंचित्प्रभुमाश्रितः केवलं प्राणीदिति योजना । प्राण-