पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
30
अलंकारमणिहारे

 पक्षे-- मुख्यौ यथासंख्यं आद्यौ विश्च भुश्च विभू इत्याकारकौ वर्णौ ययोस्तौ मुख्यविभू हश्च जश्च हजौ वर्णौ ताभ्यां सह वर्तेते इति सहजौ च ‘वोपसर्जनस्य’ इति सहशब्दस्य सभावः । ङ्गेन ङकारगकारसंयोगेन सह वर्तेते इति सङ्गौ च । एतेषां त्रयाणां विशेषणानां र्कमधारयः । मुख्यविभुसहजसङ्गौ । उदग्रभूमाश्रितौ उत् उत्कृष्टं यथा स्यात्तथा अग्रे भवतीत्यग्रभूः अवसाने विद्यमानः यः मः मकारः तेनाश्रितौ । यद्वा अग्रादुद्गता उदग्रा भूः पर्यवसानमित्यर्थः । तस्यां माश्रितौ मकाराश्रितावित्यर्थः । ईदृशौ विहङ्गभुजङ्गौ विहङ्गभुजङ्गशब्दौ क्वापि क्वचिदपि लोके वेदे वेति भावः। अर्थे अभिधेये विरोधं अन्यार्थत्वं नोपयातौ विहङ्गभुजङ्गशब्दाभ्यां यावानर्थोऽभिधीयते विहङ्गमभुजङ्गमशब्दाभ्याामपि तावत एवार्थस्याभिधानादिति भावः । अस्मिन्पक्षे सुमहान्तावित्यस्य सुमहाशब्दान्ते विद्यमानावित्यर्थोऽप्युपस्कार्यः । सुमहाविहङ्गः सुमहाभुजङ्गः इति शब्दावित्यर्थो निष्पद्यते । विहायसि गच्छतीति विग्रहे ‘गमेस्सुपि वाच्यः’ इति खचि ‘विहायसो विह इति वाच्यम्’ इति विहादेशे ‘खच्च डिद्वा वाच्यः’ इति खचो वैकल्पिके डित्त्वे डित्त्वसामर्थ्याट्टिलोपे ‘अरुर्द्विषत्’ इति मुमागमे विहङ्गः विहङ्गमः इति रूपद्वयमभिन्नार्थकम् । एवं भुजैर्गच्छतीति विग्रहे गमेः खचो वैकल्पिके डित्त्वे टिलोपे मुमागमे च भुजङ्गः भुजङ्गम इति रूपद्वयं च ॥

 यथावा--

 सामानाधिकरण्यादुत्तरपदतां गतेन ननु विष्णो । महतस्त्वया समासे सत्याकारेऽस्तमेति तान्तत्वम् ॥ ८३६ ॥