पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
384
अलंकारमणिहारे

 यथावा--

 भगवन्बलभद्र त्वद्वसनश्रीविजयलिव्सुरथ मध्ये व्यत्यस्तहलाकर्षणरभसेन बलाहको बकोवृत्तः ॥ १२३२ ॥

 हे भगवन् बलभद्र! नीलांम्बरत्वद्योतनायेदम् । बलाहकः वारिवाहकः नैल्यातिशयद्योतनायेदम् । त्वद्वसनश्रियः विजयं अभिभवं लिप्सुः अथ मध्ये अस्मिन्नवसर एव पर्यस्तं परितः क्षिप्तं यत् हलं लाङ्गलं तदाकर्षणरभसेन त्वत्कर्तृकेणेति भावः । बकः वृत्तः परानिष्टप्रापणालाभस्वानिष्टप्राप्तिमूलकमनःखेदवशात्स्वकीयनैसर्गिकश्यामलिमविधुरो बकवत्पाण्डुर एवाभूत् न तु त्वद्वसनश्रीविजयेन कमनीयश्यामलिमोत्कर्षमिति भावः । बकवद्ध्यानपरोऽभवदिति वा । पक्षे बलाहकशब्दः मध्ये स्वान्तराळे पर्यस्तौ व्यत्यस्तौ यौ ह ला इति वर्णौ तयोः कर्षणरभसेन उत्सारणेन, पर्यस्तं यथास्यात्तथा हला इति वर्णयोराकर्षणरभसेनेति वा । आदौ चरमहवर्णस्य अनन्तरं प्राथमिकलावर्णस्योत्सारणेनेत्यर्थः । बको वृत्तः बक इति निष्पन्न इत्यर्थः ॥

 यथावा--

 त्वन्नयनयुगजिगीषाकुतुकादभ्येत्य जननि तदपास्तः । हरिण इहक्षतिमुपयन्नगादिरिणतां खगाद्रिपतिमहिळे ॥ १२३३ ॥

 हरिणः कुरङ्गः हरिणशब्दश्च । इह लोके क्षतिं हानिम् । पक्षे इना इकारेण हक्षतिं हकारस्य भ्रंशं संबन्धसामान्यषष्ठ्यास्समासः । उपयन् हकारस्थाने इकारं प्राप्तवान् सन् इरिणतां शून्यतां स्वरूपहानिमित्यर्थः । पक्षे इरिणशब्दतां अगात् । 'अथ