पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
383
विषमालङ्कारसरः (४०)

सत्तां लब्ध्वाऽपि । अपिना तद्विभवस्याकिंचित्करता द्योत्यते । पक्षे अपिस्समुच्चये । न केवलं मकारलोपं किंतु तत्रैव विकारस्थितिं च प्राप्येत्यर्थः । विसारतां मीनतां ‘विसारश्शकुली च’ इत्यमरः । निस्सारतां दौर्बल्यमिति च गम्यते । पक्षे विसार इति निष्पन्न इत्यर्थः । अक्षिभ्यां तव नयनाभ्यां जितः । अत्रापि पूर्ववदेवोभयम् ॥

 यथावा--

 दानेन त्वद्विजये धुरि शबलाशोज्झिता कथंचिदथ । प्राप्ताऽपि कान्तिमत्वं नाथ बलाकैव भवति न तु जेत्री ॥ १२३१ ॥

 हे नाथ! शबला कामगवी दानेन औदार्येण करणेन त्वद्विजये त्वत्कर्मकाभिभवे विषये धुरि आदावेव आशोज्झिता त्यक्तप्रत्याशेत्यर्थः । अथ कथंचित् कान्तिमत्वं कान्तिरिच्छा तद्वत्तां जयविषयकस्पृहामित्यर्थः । ‘कान्तिश्शोभेच्छयोः स्त्रियाम्' इति मेदिनी । द्युतिमत्तामित्यपि गम्यते । प्राप्ताऽपि बलाकैव बिसकण्ठिकैव भवति । न तु तव जेत्री तद्वत्क्वाप्युड्डीयते न तु त्वामभिभवितुमीष्ट इत्यर्थः। पक्षे शबला शबलेति शब्दव्यक्तिः धुरि प्रथमभागे शोज्झिता शकारेण त्यक्ता अथ कान्तिमत्त्वं का इति वर्णः अन्तिमो यस्य तत् कान्तिमं तस्य भावं तकारस्य 'अनचि च' इति द्वित्वम् । ‘शरदः कृतार्थता' इत्यादाविव सामान्ये नपुंसकम् । प्राप्ताऽपि अन्ते कावर्णघटिता सती बलाकैव भवति । न तु जेत्रीशब्द इत्यर्थः । अत्रापि पूर्ववदेव सर्वम् ॥