पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
380
अलंकारमणिहारे

 यथावा--

 त्वद्रूपमभिबुभूषं विभग्नवदनं विधाय जीमूतम् । वेधाः क्रोधान्मुमुवे भग्नमुखोऽयं भवत्यतो मूतः ॥ १२२७ ॥

 वेधाः ब्रह्मा तव रूपं स्निग्धश्यामलिमानं अभिभूषुं अभिभवितुमिच्छुं । अभिभवः दुःखसाधनानुकूलव्यापारः । जीमूतं क्रोधात् विभग्नवदनं विधाय मुखे गाढं प्रहृत्येति भावः । लोकोक्तिरियम् । मुमुवे बबन्ध । 'मूङ् बन्धने’ लिट् । अत एव अयं जीमूतः भग्नमुखः पराहततया परेषां वदनं दर्शयितुमनीश इति यावत् । मूतः बद्ध एव भवति । मृङ्धातोरेव कर्मणि क्तः । ‘बद्धे संदानितं मूतम्' इत्यमरः । जीमूतशब्दो लुप्तमुख्यजीवर्णः मूत इति भवतीति वस्तुस्थितिः । अत्र भगवद्रूपाभिभवरूपतद्दुःखसाधनलक्षणस्वेष्टार्थोद्योगेन न केवलं जीमूतस्य तदलाभः, किंतु मुखभङ्गादिरूपदुःखसाधनावाप्तिश्च निबद्धेति लक्षणसंगतिः ॥

 यथावा--

 श्रीकुचजयसन्नद्धस्तदभिविलूनाग्र्यगुणक एव ततः । कमपि भजन्नाकारं कोकः काको भवन्नरिष्टोऽभूत् ॥ १२२८ ॥

 कोकः चक्रवाकः 'कुक आदाने’ इत्यस्मादचि लघूपधलक्षणो गुणः । श्रीकुचयोः जये अभिभवे । अभिभवो न्यूनीकरणं परसमवेतदुःखानुकूलव्यापारः । तस्मिन् सन्नद्धः सज्जः । अत एव ताभ्यां अभिविलूनः सर्वात्मना छिन्नः अग्र्यः श्रेष्ठः