पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
377
विषमालङ्कारसरः (४०)

 यथावा--

 ननु मेचकीबुभूषुस्तव बहुधामापहरणतः कोऽपि खगः । पापस्सन्पेचकतामाप गतः कृष्ण हन्त विशदांशुकताम् ॥ १२२२ ॥

 ननु हे कृष्ण! इदं वक्ष्यमाणार्थोपस्कारकम् । विशदां स्फुटां शुकतां कीरत्वं गतः प्राप्तः कोऽपि खगः शुक इत्यर्थः । बहु यथास्यात्तथा मेचकीबुभूषुः स्वकीयहरितवर्णस्य नातीवमेचकत्वादतिश्यामलीभवितुमिच्छुरित्यभिप्रायः । यद्वा विशदाः अंशवो यस्य स तथोक्तः, कप्, पाण्डुरवर्ण इत्यर्थः । तत्तां गतः प्राप्तः कोपि खगः हंस इति भावः । मेचकीबुभूषुः असितीभवितुमिच्छुः । अभूततद्भावे च्विः । पक्षे मेचकाः चन्द्रकाः अस्य सन्तीति मेचकी मयूरः बुभूषुः 'मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्ते वाच्यवत् क्लीबं स्रोतोऽञ्जनान्धकारयोः' इति मेदिनी । ‘मेचकश्चन्द्रके ध्वान्ते नीले ना तद्वति त्रिषु' इति रत्नमाला च । तव धाम्नः त्विषः नीलिम्न इत्यर्थः । अपहरणतः अपहाराद्धेतोः पापः पातकी सन् ‘अथ त्रिषु द्रव्ये पापपुण्यसुखादि च, इत्यमरः । पेचकतां उलूकतां आप हन्तेति विषादे । वस्तुतस्तु कोपि खगशब्दः बहुधा मेचकीबुभूषुः मेचकशब्दो भवितुमिच्छुः, मः म् इति हल्मात्रस्य आपहरणतः ईषदपहारात् पं प् इति व्यञ्जनं आप्नोतीति पापः तथाभूतस्सन् पेचकतां पेचकशब्दतामपि मेचकशब्दो बुभूषुरुक्तरीत्या पेचकशब्दोऽभूदित्यर्थः । अत्र शुकस्य हंसस्य वा मयूरतां प्राप्सोर्न केवलं तदलाभः अपितु पेचकत्वरूपोत्कटानिष्टप्रतिलम्भः । अयं च शब्दार्थतादात्म्यवैभवासादितमहिमश्लेषभित्तिकाभेदातिशयनिर्व्यूढः ॥

 ALANKARA II
48