पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
374
अलंकारमणिहारे

रसत्वं च आपद्य प्राप्य कूपः प्रमाणमस्य कूपमात्रं तत्तुल्यप्रमाणमित्यर्थः । तादृशं च तत् रूपं अवाप । अगभीर आसीदिति भावः । पक्षे अकूपारशब्दः भ्रष्टः स्वस्य आद्यः प्राथमिकः अकारः अ इति वर्णो यस्य स तथोक्तः । द्वितीयाकारव्यावृत्त्यर्थमाद्याकार इत्युक्तम् । असारतां आश्च रश्च आरौ ताभ्यां सह वर्तत इति सारः न सारः असारः तस्य भावः तत्ता तां आकाररेफरूपव्यञ्जनविहीनतामित्यर्थः । आपद्य कूपावेव कूपमात्रं तथोक्तं रूपं अवाप । आद्याकारस्य पकारोत्तराकाररेफव्यञ्जनयोश्चापायेन कूप इति वर्णद्वयमात्रावशेषितं । रूपमलभतेत्यर्थः । अत्रापि पूर्ववदेव विषममनुसन्धेयम् ॥

 यथावा--

 कलभाधीशस्स्वकरे त्वदूरुभेप्सुस्त्वया कृतो विकलः । भाधीशोऽप्यस्तु ततश्चरणेन वा समः किं स्यात् ॥ १२१९ ॥

 हे भगवन्! कलभाधीशः गजराजः स्वकरे त्वदूर्वोः भां ईप्सुः अत एव त्वया विकलः निस्तेजाः रलयोरभेदात् विकरः शुण्डाविधुर इति वा कृतः । ततः भाधीशः भानां आदन्तोऽयं भाशब्दः भासामित्यर्थः, अधीशः सहस्रांशुः भानां ताराणां अधीशः चन्द्रमाः अपिवा अस्तु । तत इत्यावर्त्यते । ततः एवं भणनादपि चरणेन तवाङ्घ्रिणा नखेन वा समः स्यात् किम् । भानुत्वेऽप्यारुण्याच्चरणतुल्यः इन्दुत्वेऽपि विशदिमादिना नखतुल्यो वा न स्यादिति भावः । अन्यत्र कलभाधीशशब्दः ककारलकारविधुरितः भाधीश इति निष्पद्यत इत्यर्थः । पूर्ववद्विषमम् ॥