पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
371
विषमालङ्कारसरः (४०)

णीयस्सन्निति भावः । कपीशतां कीशोत्तमतां अश्नुते स्वाभीष्टालाभानिष्टाभ्यागमाभ्यां आकुलमनाः कपिवदतिमात्रचपलो भवतीति भावः । अन्यत्र कलापीशशब्दः स्वकस्य स्वकीयस्य लावर्णस्य अपच्युतिं प्रच्यवनं एत्य वचनीयः वक्तुमर्हश्चेत् कपीश इति निष्पद्यत इत्यर्थः ॥

 यथावा--

 त्वत्फालरुचा ध्वस्ता विकलाऽच्युत विधुकलाकमपि वर्णम् । अप्राप्तागतपूर्वाकारा तत आविला समजनिष्ट ॥ १२१४ ॥

 हे अच्युत ! विधुकला चन्द्रकला त्वत्फालविडम्बनेच्छुरिति भावः । त्वत्फालरुचा त्वदीयललाटसुषमया ध्वस्ता पराभूता अत एव विकला अवयववैकल्यं प्राप्ता कमपि यं कंचिदपि वर्णं रूपं अप्राप्ता नैतावदेव गतपूर्वाकारा ध्वस्तप्राचीनस्ववर्णा सती ततः आविला अनच्छा समजनिष्ट ‘कलुषोऽनच्छ आविलः' इत्यमरः । पक्षे विधुकलेति शब्दव्यक्तिः अर्थगतस्य स्त्रीत्वस्य शब्द आरोप इत्यसकृदवोचाम । ध्वस्ता धुः अस्तः निरस्तः यस्यास्सा तथोक्ता निरस्तधुवर्णा सतीत्यर्थः । विकला विकलेति निष्पन्ना सती कमपि क इत्याकारकवर्णमपि अप्राप्ता विगतककारेति यावत् । आगतपूर्वाकारा आगत: अधिगतः पूर्वः सर्ववर्णेभ्यः प्रथमः आकार: आ इति वर्णः यस्यास्सा तथोक्ता सती आविला समजनिष्ट । विधुकलाशब्दो धुवर्णलोपे विकलेति निष्पन्नः ततः ककारलोपे आदावाकारप्राप्तौ चाविलेति निष्पन्न इति निर्गळितोऽर्थः । अत्रापीष्टावाप्त्यनिष्टप्राप्ती स्पष्टे ॥