पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
370
अलंकारमणिहारे

वास्यायास्सखी भवन्ती सती ‘आळिस्सखी’ इत्यमरः । मलिना भवन्तीति यावत् । पक्षे अमा आळिः इति च्छेदः । मकारळिकाराभ्यां शून्या सतीत्यर्थः । अथ कथंचित् महता प्रयत्नेन । पक्षे मकारळिकारत्यागक्लेशेनेत्यर्थः । राका पूर्णनिशाकरपूर्णिमा सती वैशद्यं संपादितवतीति यावत् । मराळिकेति शब्दव्यक्तिः त्यक्तमकारळिकारत्वेन राकेति निष्पन्नेत्यर्थः । तव विजितेत्येतत्पदद्वयमप्यनुषज्यते । तव स्मितरुचा तदवस्थालोकनजनितमन्दहासत्विषा विजिता सती अन्ततः पर्यवसानदशायां अवाङ्मूर्धा अधःकृतशिरास्सत्यपि कारास्थिता बन्धनालयस्था । हीत्यवधारणे । अभूत् उक्तदुरवस्थामेवाप्नोत् न तु स्वाभीष्टमिति भावः । पक्षे अवशिष्टा राकेति शब्दव्यक्तिर्विलोमत्वे कारेति निष्पन्नाऽभूदित्यर्थः । अत्र मराळिकायास्सर्वधाऽपि श्रीयशस्स्मितरुचिसाम्यरूपेष्टालाभः मालिन्याद्यनिष्टावाप्तिश्च शब्दार्थतादात्म्यमूलकश्लेषावलम्बिनी ॥

 यथावा--

 त्वत्कचकलापलक्ष्म्या स्वकलापच्युतिमुपेत्य वचनीयः । कनकगिरीशविलासिनि कपीशतामश्नुते कलापीशः ॥ १२१३ ॥

 हे कनकगिरीशविलासिनि! कनकगिरिः वेङ्कटाद्रिः । कलापीशः मयूरवरेण्यः त्वत्कचकलापलक्ष्मीप्रेप्सुरितिभावः । अत एव त्वत्कचकलापलक्ष्म्या हेतुभूतया स्वकलापस्य स्वबर्हस्य च्युतिं हानिं एत्य वचनीयः स्वकनीयस्त्वमविगणय्य महनीयः रमाकचकलापतौल्यलिप्सुस्स्वकलापस्यैव हानिमवाप्य लोकैर्गर्ह-