पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
368
अलंकारमणिहारे

विनयन्नप्यात्मानं वनराशिः प्रान्ततो वराशिरभूत् ॥ १२०९ ॥

 हे नीलाम्बर बलभद्र भगवन्! ‘नीलाम्बरो रोहिणेयः इत्यमरः । वनराशिः जलधिः वनराशिशब्दश्च । परं उत्कृष्टं तव चेलाकारं वसनस्य नीलरूपं तत्तुल्यतामित्यर्थः । परिप्रेप्सुः अत एव आत्मानं स्वं विनयन्नपि तद्रूपग्रहणयोग्यतार्थं शिक्षयन्नपि । पक्षे विनं कुर्वन्विनयन् विगतनकारं कुर्वन् सन् प्रान्ततः पर्यवसाने वराशिः स्थूलपटः 'वराशिः स्थूलशाटकः' इत्यमरः । अभूत् अन्यत्र वराशिरिति निष्पन्न इत्यर्थः । अत्र भगवद्बलभद्रदिव्यांशुकरूपलक्षणेष्टालाभः स्थूलपटत्वरूपानिष्टप्रतिलम्भश्च वनराशेर्वर्णितः ॥

 यथावा--

 भुव इव तवाप्यनन्त प्राप्तुं यद्यंशुकत्वमुद्युङ्क्ते । आद्याकारह्रासाद्वाराशिस्स्याद्वराशिरेव तदा ॥

 हे अनन्त ! उल्लङ्घितत्रिविधपरिच्छेद भगवन् ! वाराशिः जलधिः भुव इव परिच्छिन्नाया भूमेरिव तवापि अपरिच्छिन्नस्य भवतोऽपि अंशुकत्वं सूक्ष्माम्बरत्वं 'अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः' इति मेदिनी । प्राप्तुं यदि उद्युङ्क्ते तदा आद्याकारस्य प्राथमिकस्वस्वरूपस्यापि ह्रासात् संकोचात् वराशिः स्थूलपट एव स्यात् न तु सूक्ष्मश्लाघ्यतमभवद्दिव्यांशुकमिति भावः । वाराशिशब्दः प्राथमिकस्य आवर्णस्य ह्रस्वत्वाद्वराशिरिति निष्पन्न इति वस्तुस्थितिः । अत्रापि पूर्ववदेवं विषमम् संभावनसंकीर्णत्वं विशेषः ॥