पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
367
विषमालंकारसरः (४०)

मेति वर्णत्रितयविधुरा अतएव भिल्लीति आसीत् । सुरभिमल्लीशब्दे सुरमेति वर्णावळीलोपे भिल्लीति वर्णद्वयस्यैव पारिशेष्यादिति भावः । अत्र सुरभिमल्ल्याः भगवद्वदनस्मितादप्यधिकवर्णलिप्सारूपेष्टालाभः स्ववर्णभ्रंशाद्यनिष्टप्रतिलम्भश्च शब्दार्थतादात्म्यावलम्बिश्लेषभित्तिकाभेदाध्यवसायसाम्राज्येन निर्व्यूढः ॥

 यथावा--

 त्वद्गतिमीप्सुश्चौर्यादणकोऽच्युत वारणोऽन्तरासन्नः । वानरतामापापररूपाप्त्या तदनु वान एवाभूत् ॥ १२०८ ॥

 हे अच्युत! वारणः गजः वारणशब्दश्च चौर्यात् त्वद्गतिं ईप्सुः अत एव अणकः गर्ह्यः ‘खेटगर्ह्याणकास्समाः' इत्यमरः । पक्षे अविद्यमानणकारस्सन् अन्तरा इच्छाचौर्ययोर्मध्य एव सन्नः विशीर्णः सदेर्विशरणार्थकात्कर्तरि क्तः । ‘रदाभ्यां’ इति निष्ठातस्य पूर्वदकारस्य च नत्वम् । पक्षे अन्तरा णकारापगमानन्तरमवशिष्टवार इति वर्णद्वितय मध्ये सन् विद्यमानः नः नकारो यस्य स तथोक्तस्सन् वानरतां प्लवगतां वानरशब्दतां च आप प्राप्तवान् । तदनु अपररूपस्य ततोऽपि निहीनरूपस्य आप्त्या । पक्षे अपरं अपगतरेफं यद्रूपं तस्य आप्त्या । रेफोत्सारणेनेति यावत् । वान एव शुष्क एव अभूत् । ‘वानश्शुष्कफले शुष्के सीवने गमने कटे’ इति हेमचन्द्रः । पक्षे वानशब्दः अभूत् । अत्र वारणस्य भगवद्गतिस्तेयरूपेष्टानवाप्तिः अणकत्वाद्यनिष्टप्रतिलम्भश्च निबद्धः ॥

 यथावा--

 नीलाम्बर भगवंस्तव चेलाकारं परं परिप्रेप्सुः ।