पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
366
अलंकारमणिहारे

सहितः क्षकारमात्रे वर्णांन्तरं प्राप्तोऽपि पाकर इति वर्णानुपूर्व्यामविकृत एव सत्तामलभतेत्यर्थः । अत्रापि पूर्ववदेव इष्ठानवाप्त्यनिष्टप्राप्ती ॥

 यथावा--

 सुरमान्विताऽपि हरिमुखभवस्मितात्प्रेप्सुरुत्तमं वर्णम् । लोपितभूयोवर्णाऽसुरमा भिल्ल्येव सुरभिमल्ल्यासीत् ॥ १२०७ ॥

 सुरभिमल्ली वसन्तसंबन्धिमल्लिकाकुसुमम् । सुरभिसंबन्धित्वकथनान्मल्लिकाया वर्णसौरभाद्यतिशयः प्रत्याय्यते । सुरभिः मनोज्ञा मल्ली मल्लानाम खुरळीखेलनपरा जातिविशेषाः, तज्जातिस्त्रीत्यप्यर्थोऽनुसन्धेयः । पक्षे सुरभिमल्लीशब्दश्च । तयोस्तादात्म्यम् । शोभना च सा रमा श्रीः तयाऽन्विताऽपि । सुराणां मा लक्षमीः तदन्विताऽपीति वा । अपिशब्देन तावता अपर्याप्तत्वं गम्यते । हरेः भगवतः मुखभवं यत् स्मितं तस्मादपि स्मितवर्णादपीति यावत् । स्मितस्य मुखभवेति विशेषणेन ब्राह्मणवर्णत्वं गम्यते । उत्तमं वर्णं प्रेप्सुः । तेनेति शेषः स्मितेनेत्यर्थः । लोपितः भूयान् वर्णो नैसर्गिको यस्यास्सा तथोक्ता । अत एव असुरमा सुष्ठु रमत इति सुरमा पचाद्यच् । ततो नञ्तत्पुरुषः हर्षविरहितेति यावत् । भिल्ली किराती आसीत् मल्लजातेरपि निहिनजातिरभूदिति भावः । मली भिल्लीत्युभयत्रापि जातिलक्षणो ङीष् । पक्षे लोपिताः भूयांसो वर्णाः अक्षराणि यस्यास्सा ‘छिन्नभूयिष्ठधूमा' इत्यादावल्पावशिष्टधूमेत्यादिवत् अल्पावशेषिताक्षरेति भावः । लुप्तान्वर्णानेव दर्शयति-- असुरमेति । सु र