पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
365
विषमालंकारसरः (४०)

स्वतस्सिद्धपुंस्त्वेनेति भावः । एकवचनस्य एकेनैव सुकरे जये न द्वाभ्यामपि सन्नद्धव्यमित्यभिप्रायः । जीयेत अभिभूयेत । जयतेरत्राभिभवार्थकत्वात्सकर्मकता । तदुक्तं हरिणा--

जयिर्जयाभिभवयोराद्यर्थेऽसावकर्मकः ।
उत्कर्षप्राप्तिराद्यार्थो द्वितीयेऽर्थे सकर्मकः ॥

इति । अत्र कुसुम्भस्य न स्वेप्सितालाभमात्रं अपितु रूपान्तरग्रहणेऽप्यवर्जनीयोऽनिष्टप्रतिलम्भश्च निबद्धः ॥

 यथावा--

 इष्टत्वद्वदनतुलाऽनाप्त्याऽऽद्यन्तक्षरः क्षपाकर एषः । क्षेत्रं परमपि विन्दन् क्षपाकरः पाकरसहितोऽम्ब प्राणीत् ॥ १२०६ ॥

 हे अम्ब! एषः क्षपाकरः चन्द्रमाः क्षपाकरशब्दश्च । इष्टास्वाभिलषिता या त्वद्वदनतुला तस्याः अनाप्त्या आद्यन्तावभिव्याप्य आद्यन्तं आपादमस्तकं आजन्मनिधनं वा क्षरः क्षीणस्सन् आद्यन्तयोः शुक्लप्रतिपदमावास्ययोः क्षरः क्षीण इति च । पक्षे आद्यन्तौ क्षरौ क्षकाररेफौ यस्य स तथोक्तः परं अन्यत् क्षेत्रं शरीरं उत्तमं सिद्धस्थानं वा ‘क्षेत्रं शरीरे केदारे सिद्धस्थानकळत्रयोः' इति मेदिनी । कमपि भगवदभिव्यक्तिक्षेत्रमित्यर्थः । विन्दन्नपि । पक्षे क्षे त्रं इति भिन्नं पदं क्षे परं त्रमिति योजना । क्षे परं क्षकारमात्रे त्रं विन्दन् क्षकारस्थाने त्रेतिवर्णसमुदायं प्राप्नुवन्नित्यर्थः । त्रपाकरः लज्जाश्रित एव पाकरसेन हितः भोक्तृभ्यस्स्सौहित्यरूपहितकारी माहनसिकस्सन्निति भावः । प्राणीत् अजीवत् । पक्षे त्रपाकर इति निष्पन्नः पाकर इति वर्ण