पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
364
अलंकारमणिहारे

कलं प्रतिक्षणं विकृतिवशात् उत्तरोत्तरविलक्षणविकारावाप्तिवशात् । पक्षे कलौ ककारलकारौ तयोः पश्चात् अनुकलं ‘अव्ययं विभक्ति' इत्यादिना पश्चादर्थेऽव्ययीभावः । विकृतिवशात् वेः वि इत्यकारकवर्णस्य कृतिः करणं न्यसनमिति यावत् । तद्वशात् कलविङ्कः खगः चटकाख्यः पक्षी अभूत् । विकलङ्कशब्द उक्तरीत्या प्राथमिकवर्णोत्सारणेन ककारलकारानन्तरं विवर्णन्यसनेन च कलविङ्क इति निष्पन्न इति । निर्गळितोऽर्थः । अत्र विकलङ्कखगस्य न परमभीष्टभगवद्वाहनतानवाप्तिः अपितु मूषकत्वाद्युत्कटानिष्टप्रतिलम्भश्च शब्दार्थतादात्म्यनिबन्धनश्लेषभित्तिकाभेदाध्यवसायजीवातुक इति विभावनीयम् ॥

 यथावा--

 तव रुचिलिप्सु परास्तं ध्वस्तसुवर्णं कुसुम्भमम्ब ततः । क्लैब्यं विहाय पुंस्त्व भजतु तथाऽपि स्तनेन जीयेत ॥ १२०५ ॥

 हे अम्ब! कुसुम्भं महारजनं कनकं वा । पक्षे कुसुम्भमिति पदं ‘कुसुम्भं हेमनि महारजने ना कमण्डलौ’ इति मेदिनी । महारजनं कुङ्कुमकुसुममित्याहुः । तव रुचिं त्विषं लिप्सु अत एव परास्तं त्वद्रुचा निरस्तं अत एव ध्वस्तः सुवर्णः शोभनस्वकीयवर्णः सु इत्याकारकवर्णश्च यस्य तत्तथोक्तं सत् । ततः ईदृशावस्थावाप्त्यनन्तरं क्लैब्यं अधृष्टतां नपुंसकलिङ्गतां च विहाय पुंस्त्वं पौरुषं भजतु कलशः करिकुम्भो वा जायताम् । पक्षे पुल्लिङ्गत्वं भजतु । सु इति वर्णोत्सारणेन कुम्भ इति पुल्लिङ्गो निष्पद्यतामिति भावः । कुम्भशब्दो हि 'कुम्भौ घटेभमूर्धानौ' इति पुंस्त्वेनानुशिष्टः । तथाऽपि तवेत्येतदनुषज्यते । तव स्तनेन