पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
363
विषमालंकारसरः (४०)

वक्रश्चासौ कचश्चेति विग्रहः । पक्षे चक्रशब्दः वैलोम्यं प्रतिलोमवर्णत्वं आप्य अन्तः मध्ये कमपि कवर्णमपि भजन् क्रकच इति निष्पन्नः । अथ अग्रे क्रवर्णादप्यादौ परं अतिशयितं यथा स्यात्तथा । उद्भवं उद्गता भा यस्य तं तथोक्तं उद्भूततया भासमानमित्यर्थः । वं वकारं एत्य वक्रकच इति निष्पद्यत इत्यर्थः ॥

 यथावा--

 विकलङ्कः कोऽपि खगस्तव वाहत्वेप्सुरविरभूदग्रे । अनुकलमथ विकृतिवशात् खगेन्द्रवाहन बभूव कलविङ्कः ॥ १२०४ ॥

 हे खगेन्द्रवाहन! भगवन्! इदं प्रकृतविवक्षितार्थोपस्कारकम् । विकलङ्कः हेतुगर्भमिदं, विकलङ्कत्वाद्धेतोः कोऽपि खगः कशब्दवाच्यो भानुरपि । यद्वा कः खगो विकलङ्कोऽपीति योजना । ईदृशस्यापि विवक्षितेष्टासिद्धिराश्चर्येति भावः । ‘मारुते वेधसि व्रध्ने पुंसि कः, इत्यमरः । कोऽपि खगः यःकश्चिदज्ञातनामा पक्षीत्यर्थोऽप्युपस्कार्यः । ‘शरार्कविहगाः खगाः' इत्यमरः । तव वाहत्वं वाहनत्वं खगेन्द्रत्वमिति भावः । ईप्सुः आप्तुमिच्छुः, इच्छा स्वायत्ता न तु फलप्राप्तिरिति भावः । अग्रे आदौ अविः मेषः मूषको वा अभूत् । वस्तुतस्तु अविः अविशब्दवाच्यः तेजोरूपो वा तव भवनं वा अभूत् । तन्मण्डलान्तस्स्थितत्वात्तवेति भावः । 'अविर्ना पर्वते सूर्ये मेषे मूषककम्बळे । प्राकारे भवने भासि स्त्री तु पुष्पवतीभुवोः' इति रत्नमाला । 'मूषककम्बळे' इत्यत्र आखौ कम्बळे चेत्यर्थः इति ‘अवयश्शैलमेषार्काः' इत्यमरश्लोकव्याख्यानावसरे दशटीकासर्वस्वकारादयः । पक्षे अग्रे आदौ अविः विकारशून्यः त्यक्तविवर्ण इत्यर्थः । अभूत् । अथ अनन्तरं अनु-