पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
358
अलंकारमणिहारे

मथ रोषात् । अभवत्संमुख एत्य स्थितोऽपि पुनरप्यधः कृतस्तेन ॥ ११९६ ॥

 स्वरुः दम्भोळिः हरिनन्दकजिगीषुरिति भावः । हरेः भगवतः नन्दकेन तन्नाम्ना खड्गेन धुततेजाः अत एव स्वं शिरो विधून्वन्निति क्रोधानुभावोक्तिः । अथ तत्क्षणमेव रोषात् संमुखे अग्रभागे एत्य स्थितोऽपि द्वंद्वयुद्धार्थमिति भावः । तेन नन्दकेन पुनरपि अधःकृतः न्यक्कृतः अभवत् । सर्वथाऽपि नाजौषीत् किंतु पराभूत पवासीदिति भावः । पक्षे स्वरुः स्वरुशब्दः शिरः अग्रभागावस्थितमिति यावत् । स्वं स्वेत्याकारकं वर्णसमुदयं विधून्वन् । त्यजन् सन् अभवत्संमुख इत्यत्र अभवत् त्संमुखे इति च्छेदः। अभवत् संमुखे' इतिच्छेदपक्षे तकारस्य 'अनचि च' इति द्वित्वम् । मुखे अग्रभागे त्सं त्सेत्याकारकवर्णसमुदयं एत्य स्थितोऽपि त्सरुर्भूत्वा स्थितोपि स्वरुशब्दे मुखगतस्ववर्णलोपे तत्रैव त्सवर्णन्यसने त्सरुरिति निष्पत्तेरिति भावः । तेन नन्दकेन अधःकृतः मुष्टेः खङ्गाधोभागावस्थानादिति भावः । ‘त्सरुः खङ्गादिमुष्टौ स्यात्' इत्यमरः । अत्र स्वरोर्नन्दकजयरूपेष्टालाभः अधःकृतत्वरूपोत्कटानिष्टप्रतिलम्भश्च श्लेषेण निबद्धः । शब्दार्थयोस्तादात्म्यवैभवमीदृशस्थलेषु न विस्मर्तव्यम् ॥

 यथावा--

 लक्ष्म्या कुचकोकतुलाप्रेप्सुस्स्तबको बको बभूवास्तः । इष्टानवाप्त्यनिष्टप्राप्ती खलु सूनभागिनो नियते ॥ ११९७ ॥

 लक्ष्म्या श्रिया कुचकोकस्य स्वकुचचक्रवाकस्य तुलां प्रे